Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 480
________________ त्रिषष्टि शलाका पुरुषचरिते ॥६३॥ त्रिदण्डपाणिः काषायवसना कुण्डिकाजलैः । सदर्भेर्भुवमभ्युक्ष्य स्ववृष्यां निषसाद सा ।। १२५ ।। मल्लेरप्यन्यजनवत् सा धर्मं तं तथा जगौ । ज्ञानत्रितयभृन्मल्लिरप्येवमवदत्ततः ।। १२६ ।। दानमात्रं न धर्माय तद्धि चेद्भवेत् । तह्यर्तुकुर्कुटादीनां पोषणान्यपि तत्कृते ॥ १२७ ॥ तीर्थाभिषेकैः प्राणातिपातमूलैः कथं शुचिः । असृजा क्षाल्यमानं किमसृग्दिग्धं विशुध्यति ॥ १२८ ॥ धर्मो विवेकमूलस्तु निर्विवेकस्य नास्ति सः । क्लेशाय केवलं तस्य तपांस्यपि न संशयः ।। १२९ । मल्ल्यैवमुक्ता सा चोक्षा विलक्षाभूदधोमुखी । केनेश्वरवचोयुक्तियुक्तं बाधितुमीश्यते ॥ १३० ॥ कियच्चिरमिदं विश्वमाः पाखण्डिनि वञ्चितम् । त्वया कुंशासनेनेति दास्यादिभिरभसि सा ।। १३१ ॥ चोक्षेत्यचिन्तयद्राज्यसम्पदुन्मत्तयानया । एतत्परिच्छदेनापि स्वामिच्छन्दानुवर्तिना ।। १३२ ।। यदस्मि तर्जिता स्वैरं तद्वैरानृण्यहेतवे । क्षेप्स्याम्येनां सपत्नीषु बह्वीषु निजबुद्धितः ॥ १३३ ॥ एवं विचिन्त्य निर्गत्य सामर्षाध्मातमानसा । जगाम काम्पील्यपुरे जितशत्रुनृपान्तिके ।। १३४ ।। प्रतिपत्त्या महत्या सा दृष्ट्य तेन महीभुजा । कृताशीर्वादकल्याणा स्वस्यां वृष्यामुपाविशत् ।। १३५ ।। सा राज्ञान्तः पुरेणापि ववन्दे भक्तिपूर्वकम् । धर्मं तत्रापि चाशंसद्दानतीर्थाभिषेकजम् ।। १३६ ।। भूपतिस्तामुवाचैवं भगवत्यखिलां महीम् । एतामपरतन्त्रत्वादभ्राम्यस्तेन पृच्छ्यसे ।। १३७ ।। वरमन्तःपुरस्त्रैणं चोक्षे यादृगिदं मम । अन्यत्राप्यस्ति कुत्रापि किं तादृग्दृष्टपूर्विणी ॥ १३८ ॥ १ स्वदर्भासने । २ ओतुर्बिडालः । ३ धर्माय । ४ असृजा शोणितेन दिग्धं लिप्तम् । ५ समर्थीभूयते । ६ करणे तृतीया । ७ छन्दः इच्छा । ८ अमर्षः क्रोधः । ९ गौरवेण । १० स्त्रीणां समूहः स्त्रैणम् । +++ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिनचरितम् । मल्लिकुमारीवर्णनं दूतप्रेषणं च । ॥६३॥

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524