Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 479
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६२॥ धात्र्या किमेतदित्युक्ते कुमारोऽप्यब्रवीदिति । स्वसा मल्ली पुरोऽस्त्येषा ततोऽत्र क्रीड्यते कथम् ॥१११ ॥ सम्यग्निरूप्य धात्री साप्याचख्यौ परिभाव्यताम् । न साक्षान्मल्ल्यसौ किंतु चित्रस्था मापसर्प तत् ।।११२ ॥ ऋद्धो मलकुमारोऽपि तस्य चित्रस्य लेखकम् । निकर्त्य दक्षिणकरं संदंशं निरवासयत् ।। ११३ ।। सोऽभ्येत्य हास्तिनपुरेऽदीनशत्रोर्महीपतेः । तं वृत्तान्तं समाचख्यौ मल्ली चैवमवर्णयत् ।।११४ ।। अशेषजगदाकाशशशिलेखा वराङ्गना । मल्लिं विना क्वचित् कापि नास्ति नाभून्न भाविनी ॥ ११५ ॥ यस्ता कन्यां समालोक्यालोकयेदपरामपि । महानीलमणिं दृष्ट्वा काचखण्डं स पश्यति ॥ ११६ ॥ रूपेण लवणिम्ना च गत्या चान्यैश्च चेष्टितैः । सैवैका योषितां धुर्या सरितामिव जाह्नवी ॥ ११७ ॥ इति तद्वर्णनं कृत्वा स चित्रकरपुङ्गवः । आकृष्य चित्रफलकं चित्रस्थां तामदर्शयत् ।। ११८ ॥ दृष्ट्वा तां विस्मितः पूर्वस्नेहादुत्कण्ठितश्च सः । प्रेषीत्तद्याचनायोपकुम्भराजं स्वपूरुषम् ॥ ११९ ।। इतोऽभिचन्द्रजीवोऽपि वैजयन्तात्परिच्युतः । काम्पील्यनगरे नाम्ना जितशत्रुर्नृपोऽभवत् ॥ १२० ॥ धारिणीप्रमुखं राज्ञीसहस्रं तस्य चाभवत् । पुण्याकृष्टं देवलोकादृन्दमप्सरसामिव ।। १२१ ॥ इतश्च मिथिलापुर्यां चोक्षा नाम विचक्षणा । एका परिव्राजिकाख्याद्राजेश्वरगृहेष्विति ।। १२२ ।। दानमूलः सदा धर्मस्तथा तीर्थाभिषेकजः । स्वर्गापवर्गयोर्हेतुरिति नस्तत्त्वतो वचः ॥ १२३ ॥ धर्मे प्रवर्तयन्त्यस्मिन् पौराजानपदानपि । विहरन्त्यन्यदाभ्यागात् सदने मल्ल्यधिष्ठिते ॥ १२४ ।। १ छित्त्वा । २ संदंशः स्यात्कङ्कमुख इत्यभिधानचिन्तामणिः लोके 'चीपीयो' इति ख्यातः ।३ लावण्येन । ४ निष्कास्य । ५ राज्ञामीश्वराणां धनिकानां च गहेष । षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि| नाथजिनचरितम् । FARRIBRARSHAS मल्लिकुमारीवर्णन दूतप्रेषणं च । ||६२॥ SAS

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524