Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 472
________________ त्रिषष्टि शलाका पुरुषचरिते ॥५५ ॥ क्रमादुद्यौवनं तं च यौवराज्ये महाबलः । निजे निवेशयामास मूर्त्यन्तरमिवात्मनः ।। ११ ।। षड्भिर्बालसुहृद्भिस्तैः समं राजा महाबलः । अश्रौषीदार्हतं धर्मं सौहार्दादेकभावतः ।। १२ ।। वयस्यान् सोऽन्यदेत्यूचे भो भो भीतोऽस्म्यहं भवात् । ततश्च प्रव्रजिष्यामि पन्थाः कोऽतः परं तु वः ॥ १३ ॥ तेऽप्यूचुः संभूय भुक्तं यथा सांसारिकं सुखम् । भोक्ष्यामहे शिवसुखं संभूयातः परं तथा ।। १४ । ततो न्यवेशयद्राज्ये बलभद्रं महाबलः । स्वे स्वे राज्ये सुतं स्वं स्वं ततश्च सुहृदोऽपि ते ।। १५ ।। वरधर्ममुनीन्द्रस्य पादमूले महाबलः । तैः सुहृद्भिः समं षड्भिः प्रवव्राज महाबलः ।। १६ ।। तपो यदेकः कर्ता नस्तत्कार्यमपरैरपि । सप्तानामप्यभूत्तेषां प्रतिज्ञेयं महात्मनाम् ।। १७ ।। एवं ते कृतसङ्केताश्चतुर्थादितपः समम् । चतुर्थपुरुषार्थाय तुल्योत्कण्ठाः प्रचक्रिरे ॥ १८ ॥ अद्य मे दुष्यति शिरो दुष्यत्युदरमद्य च । अद्य नास्ति क्षुदित्यादि व्यपदिश्य महाबलः ।। १९ ।। नाभुङ्क्त पारणाहेऽपि स्वस्याधिकफलेच्छ्या । मायया वञ्चयित्वा तानधिकं विदधे तपः ॥ २० ॥ ॥ युग्मम् ॥ मायामिश्रेण तपसाबध्नात् स्त्रीवेदकर्म सः । अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नाम कर्म च ॥ २१ ॥ पूर्वलक्षचतुरशीत्यायुष्काः सप्त ते व्रतम् । पात्वा चतुरशीत्यब्दसहस्रीमायुषः क्षये ॥ २२ ॥ द्विधा संलेखनां कृत्वा गृहीत्वानशनव्रतम् । विपद्य वैजयन्ताख्ये विमाने जज्ञिरे सुराः ।। २३ ।। इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे । नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा ॥ २४ ॥ १ धर्मेऽशिथिलास्तत्परा नागराः पौरा यस्यां सा । षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिनचरितम् । पूर्वभवः । ॥५५॥

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524