________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥५५ ॥
क्रमादुद्यौवनं तं च यौवराज्ये महाबलः । निजे निवेशयामास मूर्त्यन्तरमिवात्मनः ।। ११ ।। षड्भिर्बालसुहृद्भिस्तैः समं राजा महाबलः । अश्रौषीदार्हतं धर्मं सौहार्दादेकभावतः ।। १२ ।। वयस्यान् सोऽन्यदेत्यूचे भो भो भीतोऽस्म्यहं भवात् । ततश्च प्रव्रजिष्यामि पन्थाः कोऽतः परं तु वः ॥ १३ ॥ तेऽप्यूचुः संभूय भुक्तं यथा सांसारिकं सुखम् । भोक्ष्यामहे शिवसुखं संभूयातः परं तथा ।। १४ । ततो न्यवेशयद्राज्ये बलभद्रं महाबलः । स्वे स्वे राज्ये सुतं स्वं स्वं ततश्च सुहृदोऽपि ते ।। १५ ।। वरधर्ममुनीन्द्रस्य पादमूले महाबलः । तैः सुहृद्भिः समं षड्भिः प्रवव्राज महाबलः ।। १६ ।। तपो यदेकः कर्ता नस्तत्कार्यमपरैरपि । सप्तानामप्यभूत्तेषां प्रतिज्ञेयं महात्मनाम् ।। १७ ।। एवं ते कृतसङ्केताश्चतुर्थादितपः समम् । चतुर्थपुरुषार्थाय तुल्योत्कण्ठाः प्रचक्रिरे ॥ १८ ॥ अद्य मे दुष्यति शिरो दुष्यत्युदरमद्य च । अद्य नास्ति क्षुदित्यादि व्यपदिश्य महाबलः ।। १९ ।। नाभुङ्क्त पारणाहेऽपि स्वस्याधिकफलेच्छ्या । मायया वञ्चयित्वा तानधिकं विदधे तपः ॥ २० ॥
॥ युग्मम् ॥
मायामिश्रेण तपसाबध्नात् स्त्रीवेदकर्म सः । अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नाम कर्म च ॥ २१ ॥ पूर्वलक्षचतुरशीत्यायुष्काः सप्त ते व्रतम् । पात्वा चतुरशीत्यब्दसहस्रीमायुषः क्षये ॥ २२ ॥ द्विधा संलेखनां कृत्वा गृहीत्वानशनव्रतम् । विपद्य वैजयन्ताख्ये विमाने जज्ञिरे सुराः ।। २३ ।। इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे । नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा ॥ २४ ॥
१ धर्मेऽशिथिलास्तत्परा नागराः पौरा यस्यां सा ।
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिनचरितम् ।
पूर्वभवः ।
॥५५॥