________________
(षष्ठः सर्गः । (श्रीमल्लिनाथचरितम् ।
त्रिषष्टिशलाकापुरुषचरिते
॥५४॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
पूर्वभवः ।
जयन्ति मल्लिनाथस्य मल्लीमाल्यामला गिरः । आपीयमानाः सोत्कण्ठं भव्यजन्तुमधुव्रतैः ॥१॥ श्रोतृश्रोत्रेषु पीयूषश्रोतःसन्निभमद्भुतम् । उदीरयामश्चरितं श्रीमल्लिस्वामिनोऽधुना ॥ २ ॥ द्वीपेऽत्रैव जम्बूद्वीपे विदेहेष्वपरेषु च । विजये सलिलावत्यां वीतशोकाभिधास्ति पूः ॥३॥ बलेनोच्चैर्बल इव बलस्तत्र नृपोऽभवत् । द्विषद्बलवनोन्माथकुञ्जरो निर्जराकृतिः ॥ ४ ॥ राज्ञोऽस्य धारिणीपल्यां केसरिस्वप्नसूचितः । जज्ञे महाबलो नाम सूनुरन्यूनविक्रमः ॥ ५ ॥ उद्यौवनः कमलश्रीप्रभृती राजकन्यकाः । शतानि पञ्चैकदिने पर्यणैषीन्महाबलः ।। ६ ।। तस्यासन् बालसुहृदोऽचलो धरणपूरणौ । वसुर्वैश्रवणश्चाभिचन्द्र इत्यभिधानतः ॥७॥ अपरेधुर्बलो राजा तस्याः पुर्या बहिर्मुवि । ऐशान्यामिन्द्रकुब्जाख्य उद्याने समुपेयुषाम् ॥ ८ ॥ मुनीनामन्तिके धर्म श्रुत्वा वैराग्यवासितः । राज्ये महाबलं न्यस्य प्रव्रज्य च शिवं ययौ ।। ९ ।।
॥युग्मम् ॥ कमलश्रीमहादेव्यां सिंहस्वप्नेन सूचितः । सूनुर्महाबलस्याभूदुबलभद्रोऽभिधानतः ।। १० ॥ १ मल्लीकुसुमानां मालावन्निर्मलाः । २ भव्यप्राणिन एव मधुकरास्तैः । ३ शत्रूणां बलमेव वनं तस्य मथने गजसदृशः ।।
॥५४॥