________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥५३॥
प्रह्लादोऽपि धेनुर्ह्रादैर्द्रादयन्नभितो दिशः । डुढौके दृढदोर्दण्डो दण्डपाणिरिवोत्कटः ।। २८ ॥ उभौ मुमुचतुर्बाणान् हरिप्रतिहरी रुषा । मिथश्चिच्छिदतुश्चोभावन्योऽन्यजयकाङ्क्षिणौ ।। २९ ।। गदामुद्गरदण्डादीन्यायुधान्यपराण्यपि । परस्परं चिच्छिदतुच्छेदच्छेकावुभावपि ॥ ३० ॥ उल्काकुलं युगान्तार्कमिव ज्वालाशताकुलम् । प्रह्लादो भ्रमयित्वा खेऽमुचच्चक्रं हरिं प्रति ॥ ३१ ॥ मोघीभूतं समीपस्थं हरिश्चक्रं तदेव हि । उपादाय प्रह्लादाय मुक्त्वा चिच्छेद तच्छिरः ।। ३२ ।। तथैव कृत्वा दिग्यात्रा भरतार्धमसाधयत् । अथोद्दधे कोटिशिलामर्धचक्री च सोऽभवत् ॥ ३३ ॥ कौमारे द्वे वर्षशते मण्डलित्वे दिशां जये । प्रत्येकमब्दपञ्चाशदभूद्दत्तस्य शार्ङ्गिणः ।। ३४ ।। षट्पञ्चाशतमब्दानां सहस्राण्यतिवाह्य सः । ययौ कर्मवशाद्दत्तः पञ्चमीं नरकावनिम् ।। ३५ ।। दत्तस्य शार्ङ्गिणो जातेऽवसाने कालमत्यगात् । कथंचित् पञ्चषष्ट्यब्दसहस्रायुर्हलायुधः ।। ३६ । भ्रातृव्ययेन भवभावनया च भूरिवैराग्यवान् भुवनशोभित आत्तदीक्षः । तीव्रं व्रतं निरतिचारमपालयच्चागान्नन्दनस्तदनु सिद्धिपदप्रतिष्ठाम् ॥ ३७ ॥
#
इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि दत्तनन्दनप्रह्लादचरितवर्णनो नाम पञ्चमः सर्गः ।
* * * * *
१ धनुः शब्दः । २ यमः । ३ छेदे छेकी चतुरौ । ४ भ्रातृमरणेन ।
षष्ठं पर्व
पञ्चमः सर्गः दत्तवासुदेवनन्दनबलदेवप्रह्लादप्रति
वासुदेव
चरितम् ।
दत्तस्य
नरकगमनं नन्दनस्य
च मोक्षः ।
॥५३॥