________________
त्रिषष्टिशलाकापुरुषचरिते
॥५२॥
षष्ठं पर्व पञ्चमः सर्गः दत्तवासुदेवनन्दनबलदेवप्रह्लादप्रतिवासुदेव . चरितम् ।
अग्निवत्तेजसा तत्र सिंहवच्च पराक्रमात् । अग्निसिंह इतीक्ष्वाकुवंशेऽभूद्वसुधाधवः ॥ १३ ॥ तस्य स्थैर्याभियोगाभ्यां पक्षाभ्यामिव विष्टपे । निरन्तरं यशोहंसो न व्यरंसीत् परिभ्रमन् ।। १४ ।। सलीलं समरारंभे दृष्ट्वा तन्नमितं धनुः । तद्वेलामिव बिभ्राणा नेमुः प्रत्यर्थिपार्थिवाः ।। १५ ।। बलिष्ठे तस्य दोःस्तम्भे दृढेरालानिता गुणैः । स्थिरतां कलयामास श्रीर्वारणवधूरिव ।। १६ ॥ तस्याभूतामुभे पल्यौ जयन्ती शेषवत्यपि । अशेषभुवनस्त्रीणां जयन्त्यौ रूपसम्पदम् ॥ १७ ॥ वसुंधरवरो देवश्च्युत्वा पञ्चमकल्पतः । स जयन्त्या महादेव्या उदरे समवातरत् ।। १८ ॥ चतुःस्वप्नाख्यातरामावतारो नन्दनाभिधः । जगदानन्दनस्तस्याः समये समभूत् सुतः ।। १९ ॥ सौधर्माललितश्च्युत्वा शेषवत्यामभूत्सुतः । सप्तस्वप्नाख्यातकृष्णावतारो दत्तसंज्ञया ॥२०॥ तौ षड्विंशतिधन्वोच्चौ श्वेतश्यामावुभावपि । अब्धी क्षीरोदकालोदाविव पुंस्त्वमुपेयतुः ।। २१ ॥ नीलपीताम्बरधरौ तालताय॑ध्वजौ च तौ । सवयस्काविव ज्येष्ठकनिष्ठावपि चेरतुः ।। २२ ॥ भरतार्धप्रभविष्णुः प्रतिविष्णुरथान्यदा । श्रुत्वैरावणसंकाशं गजेन्द्र तावयाचत ।। २३ ।। तस्मिन्नन्दनदत्ताभ्यामदत्ते कुअरोत्तमे । सद्यधुकोप प्रह्लादः पञ्चास्य इव तर्जितः ॥ २४ ॥ सर्वाभिसारतो द्वावप्यभ्यषणयतां मिथः । विष्णुश्च प्रतिविष्णुश्च क्रुद्धौ वनगजाविव ॥२५ ॥ सैन्ये प्रह्लादसैन्येन नीते दैन्यदशां क्षणात् । युधि चेलतुरारूढस्यन्दनौ सीरिशाङ्गिणौ ।। २६ ॥ दध्मौ दत्तः पाञ्चजन्यं द्विषद्बलहरं वरम् । शाङ्ग चास्फालयामास जयकुञ्जरडिंडिमम् ।। २७ ।। १ अभियोगो व्यवसाय उद्योग इति यावत् । २ जगति । ३ तेनाकृष्टम् । ४ शत्रुनृपाः । ५ सिंहः । ६ तिरस्कृतः ।
जन्म।
॥५२॥