________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥५१॥
पञ्चमः सर्गः ।
( दत्त - नन्दन - प्रह्लादचरितम् ।
अरतीर्थेऽथासन् विष्णुबलप्रत्यर्धचक्रिणः । दत्तनन्दनप्रह्लादास्तेषां चरितमुच्यते ॥ १ ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहविभूषणम् । पूः सुमीमास्ति तत्राभूत् पृथ्वीनाथो वसुंधरः ।। २ ।। स चिरं पालयित्वा क्ष्मां सुधर्ममुनिसन्निधौ । व्रतमादाय मृत्वा च ब्रह्मलोकमुपाययौ ॥ ३ ॥ इतश्च जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे । नाम्ना मन्दरधीरोऽभूत् पुरे शीलपुरे नृपः ॥ ४ ॥ गुणरत्नार्णवस्तस्य महावीर्यो महाभुजः । सूनुर्ललितमित्रोऽभून्मंत्रो मित्राम्बुजन्मनाम् ॥ ५ ॥ ज्ञापयित्वा दृप्त इति तं प्रत्याख्याय भूपतेः । भ्रातरं युवराजत्वे खलो मन्त्री न्यवेशयत् ॥ ६ ॥ ततो ललितमित्रोऽपि विरक्तः सन् पराभवात् । घोषसेनमुनेः पार्श्वे परिव्रज्यामुपाददौ ॥ ७ ॥ तप्यमानः स विदधे निदानमिति दुर्मनाः । वधाय तपसानेन तस्य स्यां खलमन्त्रिणः ॥ ८ ॥ स निदानमनालोच्य कालधर्ममुपागतः । सौधर्मे देवलोकेऽभूत्रिदशः परमर्द्धिकः ॥ ९ ॥ खलाख्यः सचिवः सोऽपि चिरं भ्रान्त्वा भवाटवीम् । अस्यैव जम्बूद्वीपस्य गिरौ वैताढ्यनामनि ॥ १० ॥ उत्तरश्रेणितिलके पुरे सिंहपुराभिधे । विद्याधरेन्द्रः प्रह्लादः प्रतिविष्णुरजायत ।। ११ ।। इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धे च दक्षिणे । पुरी वाराणसीत्यस्ति श्रिता सख्येव गङ्गया ॥ १२ ॥
१ सूर्यः । २ मित्राण्येव कमलानि तेषाम् । ३ दृष्टं मनो यस्य सः ।
षष्ठं पर्व
पञ्चमः सर्गः दत्तवासुदेवनन्दनबलदेव
प्रह्लादप्रति
वासुदेव
चरितम् ।
पूर्वभवः ।
1149 11