SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ K त्रिषष्टिशलाकापुरुषचरिते ॥५०॥ षष्ठं पर्व चतुर्थः सर्गः सुभूम-- चक्रवर्ति चरितम् । AHAASARSHABHARASHRSHASHA चक्रवर्त्यष्टमः सोऽथ तेन चक्रेण भास्वता । शिरः परशुरामस्य पङ्कजच्छेदमच्छिदत् ।। १०० ।। क्षिति निःक्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिकृत्वस्तां तथा निर्ब्राह्मणामसौ ।। १०१ ॥ क्षुण्णक्षितिपहस्त्यश्वपदातिव्यूहलोहितैः । वाहयन् वाहिनीनव्याः स प्राक् प्राचीमसाधयत् ।। १०२ ।। स छिन्नानेकसुभटमुण्डमण्डितभूतलः । आक्रामद्दक्षिणां दक्षिणाशापतिरिवापरः ।।१०३ ॥ भटास्थिभिर्दन्तुरयन शुक्तिशबॅरिवाभितः । रोधो नीरनिधेः सोऽथ प्रतीचीमजयद्दिशम् ॥ १०४ ।। हेलोद्घाटितवैताठ्यकन्दरं स्थाममन्दरः । म्लेच्छान् विजेतुं भरतोत्तरखण्डं विवेश सः ।। १०५ ॥ उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राथ सोऽभाङ्क्षीदिक्षूनिव महाकरी ।। १०६ ।। मेघनादाय वैताळ्यगिरिश्रेण्योद्धयोरपि । विद्याधरेन्द्रपदवीं सुभूमश्चक्रभृद्ददौ ।। १०७ ॥ षष्टिवर्षसहस्रायुश्चतुर्दिशमिति भ्रमन् । निहत्य सुभटानुर्वी स षट्खण्डामसाधयत् ।। १०८ ।। उज्जासयन्नसुमतामिति नित्यरौद्रध्यानानलेन सततं ज्वलदन्तरात्मा । आसाद्य कालपरिणामवशेन मृत्युं तां सप्तमी नरकभूमिमगात् सूभूमः ।। १०९ ।। कुमारभावेऽब्दसहस्रपञ्चकं तन्मण्डलित्वेऽथ शतानि पञ्च । जयेऽर्धलक्षं पुनरब्दपञ्चशत्यूनमस्याजनि चक्रभृत्त्वे ।। ११०॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि सुभूमचक्रवर्तिवर्णनो नाम चतुर्थः सर्गः । सुभूमस्य नरकगमनम् । ॥५०॥ १ व्यूहः समूहः । २ नदीः । ३ दक्षिणदिक्पतिर्यमः । ४ तीरम् ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy