________________
षष्ठं पर्व चतुर्थः सर्गः
त्रिषष्टिशलाकापुरुषचरिते
॥४९॥
चक्रवर्ति
चरितम् ।
यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यतेऽस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥ ८५ ।। रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत् स्थालमग्रतः ॥ ८६ ॥ अथाश्रमे स्वर्णवर्णोऽष्टाविंशतिधनून्नतिः । गतोऽङ्गणद्रुम इव सुभूमो वृद्धिमद्भुताम् ।। ८७ ।। विद्याधरो मेघनादोऽन्येधुनैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ।। ८८ ॥ तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्वा कन्यां ततस्तस्मै तस्यैवाभूत् स सेवकः ॥ ८९ ॥ कूपभेक इवानन्यगोपः पप्रच्छ मातरम् । सुभूमः किमियानेव लोकोऽयमधिकोऽपि किम् ।। ९०॥ माताप्यचीकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमात्रं हि लोकमध्येऽयमाश्रमः ।। ९१ ।। अस्मॅिल्लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत्तत्र राजा महाभुजः ।। ९२ ॥ हत्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ॥९३ ॥ तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणो क्रुद्धः क्षात्रं तेजो हि दुर्धरम् ।। ९४ ।। तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ताः पायसीभूताः सुभुजो बुभुजे च सः ॥ ९५ ।। उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जनिरे मेघनादेन व्याघेण हरिणा इव ॥ ९६ ॥ प्रस्फुरद्दष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाययौ ।। ९७ ॥ रामेण मुमुचे रोषात् सुभूमाय परश्वधः । विध्यातस्तक्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ।। ९८ ॥ शस्त्राभावात् सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीबभूव तत्सद्यः किं न स्यात् पुण्यसंपदः ।। ९९ ॥ १ ततो भवस्ततस्त्यः । २ गां पृथ्वीं पातीति गोपः । ३ मङ्गलवत् । ४ परशुः ।
त्रिसप्तकृत्वः पृथ्व्याः निर्ब्राह्मणत्वकरणम् ।
॥४९॥