________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥४८॥
राज्ये निवेशयांचक्रे तस्य प्रकृतिपुरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ।। ७० ।। तस्याभवच्च महिषी तारा तारविलोचना । बुभुजाते च तौ भोगानविघ्नममराविव ॥ ७१ ॥ भूपालराजजीवोऽपि स्वमायुः परिपूर्य सः । महाशुक्रात् परिच्युत्य ताराकुक्षाववातरत् ।। ७२ ।। कृतवीर्योऽन्यदा मातुर्मुखाच्छ्रुत्वा पितुः कथाम् । आदिष्टाहिरिवागत्य जमदग्निममारयत् ।। ७३ ।। रामः पितृवधक्रुद्धो द्राग्गत्वा हस्तिनापुरे । अमारयत्कृतवीर्यं किं यमस्य देवीयसि ॥ ७४ ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ।। ७५ ।। रामाक्रान्तपुराद्राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ॥ ७६ ॥ कृपाधनैर्भूर्गृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात् परशुरामतः ।। ७७ ।।। चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं सुखेनाभूत् सुभूमो नामतस्ततः ।। ७८ ।। क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पर्शुः परशुरामस्य कोपाग्निरिव मूर्तिमान् ॥ ७९ ॥ रामोऽगादन्यदा तत्राश्रमे पर्शुश्च सोऽज्वलत् । क्षत्रं चासूचयद्धूम इव धूर्मध्वजं तदा ॥ ८० ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ।। ८१ ।। रामोऽप्यमर्षान्निःक्षत्रां संप्तकृत्वो वसुंधराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ।। ८२ ।। क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ॥ ८३ ॥ रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वधः । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ ८४ ॥ १ अतिदूरे । २ गर्भिणी । ३ मृगीव । ४ भुवि गृहं भूगृहं गुहा इति यावत् तस्यान्तः । ५ अग्निम् । ६ सप्त वारान् ।
षष्ठं पर्व चतुर्थः सर्गः सुभूमचक्रवर्त्ति चरितम् ।
सप्तकृत्वः पृथिव्याः अक्षत्रियायाः
करणम् ।
॥ ४८ ॥