________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥४७॥
सादाद्ब्राह्मं चरुं स्वस्रे जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः ।। ५५ ।। विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी । विद्या तस्यातिसारार्त्या विस्मृताकाशगामिनी ।। ५६ ।। रामेण प्रतिंचरितो भेषजाद्यैः स्वबन्धुवत् । रामाय सेवमानाय विद्यां पारशवीं ददौ ।। ५७ ।। मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत्ततः प्रभृति विश्रुतः ॥ ५८ ॥ अन्येद्युः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हास्तिनपुरे प्रेम्णो दूरे न किंचन ।। ५९ ।। श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्यो रमयत् कामः कामं निरङ्कुशः ॥ ६० ॥ ऋषिपल्या तया राजाहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं संभोगसुखसम्पदम् ।। ६१ ।। अनन्तवीर्यात्तनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः ॥ ६२ ॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ।। ६३ ।। तां पुत्रसहितां वल्लीमकालफलितामिव । संजातकोपः परशुरामः परशुनाच्छिदत् ॥ ६४ ॥ तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ।। ६५ ।। ततश्चावार्यदोर्वीर्योऽनन्तवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाभाङ्क्षीन्मत्त इव द्विपः ।। ६६ ।। तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरीव न्यवर्तत ॥ ६७ ॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत् साक्षादिवान्तकः ॥ ६८ ॥ सुभटग्रामसङ्ग्रामकौतुकी जमदग्निजः । पर्शुना खण्डशश्चक्रे दारुवद्दारुणेन तम् ॥ ६९ ॥ १ अतिसारो व्याधिविशेषस्तद्वान् । २ उपचरितः । ३ परशुसम्बन्धिनीम् । ४ अग्निम् ।
षष्ठं पर्व चतुर्थः सर्गः भूमचक्रवर्त्ति चरितम् ।
परशुराम
स्य जन्म ।
॥४७॥