________________
त्रिषष्टिशलाका
पुरुषच
॥४६॥
*
कन्यार्थमागतोऽस्मीति मुनिनोक्तेऽब्रवीन्नृपः । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ॥ ४० ॥ स कन्यान्तःपुरे गत्वा जगाद नृपकन्यकाः । धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ॥ ४१ ॥ जटिलः पलितः क्षामो भिक्षाजीवी वदन्निदम् । न लज्जसे त्वमिति ताः कृतथूत्कारमूचिरे ।। ४२ ।। समीरण इव क्रुद्धो जमदग्निर्मुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ॥ ४३ ॥ अथाङ्गणे रेणुपुञ्ज रममाणां नृपात्मजामू । एकामालोकयामास रेणुकेत्यब्रवीच्च ताम् ।। ४४ ।। स तस्या इच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः ।। ४५ ।। तां मुनिः परिजग्राह रोरो धनमिवोरसा । सार्धं गवादिभिस्तस्य ददौ च विधिवन्नृपः ।। ४६ ।। स श्यालीः स्नेहसम्बन्धादेकोनं कन्यकाशतम् । सज्जीचक्रे तपःशक्त्या धिङ्मूढानां तपोव्ययः ॥ ४७ ॥ नीत्वाश्रमपदं तां च सुमुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षीं प्रेम्णा मुनिरवर्धयत् ॥ ४८ ॥ अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दर्पलीलावनमवाप सा ।। ४९ । साक्षीकृत्य ज्वलदग्निं जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥ ५० ॥ ऋतुकाले स ऊचे तां चरुं ते साधयाम्यहम् । यथा ब्राह्मणमूर्धन्यो धन्य उत्पद्यते सुतः ।। ५१ ।। सोवाच हास्तिनपुरेऽनन्तवीर्यस्य भूपतेः । पल्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ।। ५२ ।। ब्राह्मं सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ।। ५३ ।। साचिन्तयदहं तावदभूवमटवी मृगी । माभून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् ।। ५४ ।।
१ सज्जीकृतधनुर्यष्टिसदृश्यः । २ निर्धनः । ३ तस्याः स्वने ।
অ
षष्ठं पर्व
चतुर्थः सर्गः सुभूमचक्रवर्त्ति चरितम् ।
जमदग्नि
वृत्तान्तः ।
॥४६॥