________________
त्रिषष्टिशलाकापुरुषचरिते
॥४५॥
षष्ठं पर्व चतुर्थः सर्गः सुभूमचक्रवर्ति चरितम् ।
न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ।। २७ ।। तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ।। २८ ।। चटकश्चटकामूचे यास्यामि हिमवद्गिरौ । अन्यासक्तो नेष्यसि त्वमिति तं नाप्यमस्त सा ।।२९ ।। गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्चटकं चटकाब्रवीत् ।। ३० ॥ ऋषेरस्यैनसा गृह्ये शपेथा इति चेत् प्रिय । विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥३१॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणी ।। ३२ ।। आचचक्षे ततः सोऽपि कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वान्तमाः पापं मयि कीदृशम् ॥३३ ॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न किं श्रुतिम् ।। ३४ ।। तथेति मन्यमानस्तु मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे सूत्रितं तपः ।। ३५ ॥ तं दृष्ट्वा क्षुभितं ध्यायन् भ्रमितस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान्न कः ।। ३६ ।। बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिककोष्टकम् ।। ३७ ।। जितशत्रु महीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां गौरी हर इवागमत् ।। ३८ ॥ कृत्वाभ्युत्थानमुर्वीशः प्राअलिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् ।। ३९ ।। १ वटमिव ।२ वल्मीकेन व्याप्तं पादप्रान्तं यस्य तम् । ३ अन्यस्त्रियामासक्तः । ४ उक्तः शपथो येन तम् । ध्वान्ताम् माः-लक्ष्म्यः ताः । ५ तापसैरहं भ्रमित इति ध्यायन् धन्वन्तरिः श्रावको जात इत्यन्वयः । ६ प्रकर्षेणाप्तुमिच्छुः । ७ पार्वतीम् “दक्ष मिति पाठान्तरे दक्षनृपं प्रति ।
जमदग्निवृत्तान्तः ।
||॥४५॥