________________
त्रिषष्टिशलाकापुरुषचरिते
॥४४॥
षष्ठं पर्व चतुर्थः सर्गः सुभूमचक्रवर्ति चरितम् ।
एक आहाहतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ॥ १३ ॥ आर्हतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ।। १४ ॥ तदानी मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीतले ।। १५ ।। दीक्षां स वासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चम्पापुरी ताभ्यां देवाभ्यां ददृशे पथि ।। १६ ॥ परीक्षाकाङ्क्षया ताभ्यां पानान्ने ढौकिते नृपः । तृषितः क्षुधितोऽप्यौज्झद्धीराः सत्त्वाच्चलन्ति न ॥ १७ ॥ क्रकचैरिव चक्राते क्रूरैः कर्करकण्टकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ।। १८ ॥ पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलवच्चारु संचचार तथापि सः ॥ १९ ॥ निर्ममे गीतनृत्तादि ताभ्यां क्षोभाय भूपतेः । तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे ।। २० ॥ तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुर्युवासि च ॥ २१ ॥ स्वच्छन्दं मुदव तद्भोगान् का धीर्यद्यौवने तपः । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि ॥ २२ ॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव वार्धकम् ॥२३॥ राजोचे यदि बह्वायुर्बहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्धते ॥ २४ ॥ लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो नन । दारुणास्त्रे रणे यो हि शरः शरः स उच्यते ।। २५ ।। तस्मिन्नचलिते सत्त्वात् साधु साध्विति वादिनौ । तौ गतौ तापसोत्कृष्टं जमदग्नि परीक्षितुम् ।।२६ ॥ १ नूतनधर्मेण संस्कृतः । २ क्रियाविशेषणमेतत् । ३ निष्फलम् । ४ बुद्धिः । ५ वारिणः प्रमाणेन यावज्जलं तावन्नलिन्या नालं वर्धत इत्यर्थः ।
जमदग्निवृत्तान्तः।
॥४४॥