________________
चतुर्थः सर्गः । सुभूमचक्रवर्तिचरितम् ।
त्रिषष्टिशलाकापुरुषचरिते
॥४३॥
षष्ठं पर्व चतुर्थः सर्गः सुभूमचक्रवर्ति चरितम् ।
पूर्वभवः ।
अरतीर्थकृतस्तीर्थे सुभूमस्याथ चक्रिणः । अष्टमस्य क्रमायातं चरितं कीर्तयिष्यते ॥१॥ इहैव भरतक्षेत्रे विशालनगरेऽभवत् । भूपालो नाम भूपालः पालयन् क्षत्रियव्रतम् ।।२।। सोऽन्यदैकत्र सङ्ग्रामे बहुभिः परिपेन्थिभिः । एकीभूय पराजिग्ये वृन्दं हि बलवत्तरम् ।। ३ ।। स वैरिभिः पराभूतोऽपमानमलिनाननः । संभूतमुनिपादान्ते परिव्रज्यामुपाददे ॥ ४ ॥ प्रभुत्वभोगविषयं निदानं तपसोऽथ सः । कृत्वावसानं चासाद्य महाशुक्रे सुरोऽभवत् ।। ५ ॥ इतश्चर्षभनाथस्य कुरुरित्यभवत् सुतः । यस्य नाम्ना कुरुदेशो हस्तिनाम्ना च तत्सुतः ।। ६ ॥ यन्नाम्ना हास्तिनपुरं तीर्थकृच्चक्रिजन्मभूः । तद्वंश्योऽनन्तवीर्योऽभूत्तत्र राजा महाभुजः ॥७॥ इतश्च भरतक्षेत्रे वसन्तपुरपत्तने । उच्छिन्नवंश एकोऽभूदग्निको नाम दारकः ॥ ८ ॥ सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यन्नगमत्तापसाश्रमम् ।।९ ॥ तमग्निं तनयत्वेनाग्रहीत् कुलपतिर्जनः । जमदग्निरिति ख्याति स लोकेषु ततोऽगमत् ।। १० ॥ तप्यमानस्तपस्तीव्र प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ।। ११ ।। तदा च श्राद्धः प्रोग्जन्मनाम्ना वैश्वानरः सुरः । धन्वंतरिश्च तापसभक्तो व्यवदेतामिति ॥ १२ ॥ १ पृथ्वीपालः । २ शत्रुभिः । ३ सार्थरहितः । ४ अग्निः । ५ पूर्व जन्मनोऽभिधानेन । ६ विवाद कृतवन्तौ ।
॥४३॥