Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 474
________________ त्रिषष्टिशलाका पुरुषचरिते 114611 एकोनविंशमर्हन्तमाश्चर्यं कुम्भलाञ्छनाम् । नीत्विषं सर्वशुभलक्षणां सुषुवे च सा ।। ४० ।। ॥ युग्मम् ॥ उपेत्य दिक्कुमार्योऽस्याः सूतिकर्माणि चक्रिरे । मेरुमूर्ध्नि च नीत्वा तामिन्द्राश्च स्नपनं व्यधात् ॥ ४१ ॥ स्नपनानन्तरं शक्रस्तां विलिप्यार्च्य च स्वयम् । उत्तार्यारात्रिकं चेति भक्तिनिर्भरमस्तवीत् ॥ ४२ ॥ ज्ञानत्रयनिधानाय प्रधानाय जगत्त्रये । एकोनविंशतितमायार्हते ते नमो नमः ॥ ४३ ॥ दिष्ट्या त्वद्दर्शनेनानुगृहीतोऽस्मि चिरादहम् । सामान्यपुण्यैर्न ह्यर्हन् देवः साक्षन्निरीक्ष्यते ॥ ४४ ॥ देवानामद्य देवत्वं चरितार्थं चिरादभूत् । तव देवाधिदेवस्य जन्मोत्सवनिरीक्षणात् ।। ४५ ।। एकतो ऽच्युतनाथस्य प्राणिमात्रस्य चान्यतः । समानुग्रहबुद्धे त्वं पाहि नः पततो भवे ॥ ४६ ॥ अस्मिन्मेरुगिरौ धात्र्याः सुवर्णमुकुटायते । इन्द्रनील इव न्यस्ता त्वमतीव विराजसे ।। ४७ । स्मरणेनापि मोक्षायानीहमानस्य जायसे । दृष्ट्वा स्तुत्वा याच्यसे किं ततोऽप्यभ्यधिकं फलम् ॥ ४८ ॥ धर्माण्येकत्र सर्वाणि तव चैकत्र दर्शनम् । फलाप्तिसाधकत्वेन द्वितीयमतिरिच्यते ।। ४९ ।। नेन्द्रत्वे नाहमिन्द्रत्वे मन्ये मोक्षेऽपि नो तथा । यथा सुखं स्याल्लुठतः पुरस्त्वत्पादपद्मयोः ॥ ५० ॥ स्तुत्वैवं शक्र एकोनविंशमर्हन्तमुच्चकैः । नीत्वा च मिथिलापुर्याममुचन्मातृसन्निधौ । ५१ ।। गर्भस्थायां तत्र मातुर्यन्माल्यस्वापदोहदः । जज्ञे तदकरोत्तस्या नाम मल्लीति भूपतिः ।। ५२ ।। धात्रीभिरिन्द्रायुक्ताभिः पञ्चभिः प्रतिवासरम् । पुष्पमिव लाल्यमाना वृद्धिमाप क्रमेण सा ।। ५३ ॥ १ अनिच्छाः । २ तव दर्शनम् । षष्ठं पर्व षष्ठः सर्गः श्रीमल्लि नाथजिनचरितम् । जन्मोत्सवः । 114011

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524