Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते
॥५६॥
षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् ।
शातकुम्भमयैः कुम्भैः प्रासादास्तत्र बिभ्रति । उपर्युदितमार्तण्डोदयपर्वतविभ्रमम् ।।२५ ॥ सर्वरत्नमयीं दृष्ट्वा तां पुरीमपराः पुरीः । अलकाद्या रत्नमयीः कथासु श्रद्दधे जनः ॥२६ ॥ क्षणं दिवि क्षणं तस्यां क्षणं तस्यां क्षणं दिवि । तद्रामणीयकातृप्तास्तस्थुर्दिविषदोऽनिशम् ।। २७ ॥ इक्ष्वाकुवंशक्षीराब्धिसुधाकुम्भो भुवः पतिः । कुम्भ इत्यभवल्लक्ष्मीनिवासो निधिकुम्भवत् ।। २८ ।। आश्रयः स श्रियामेकः स्रवन्तीनामिवार्णवः । उत्पत्तिभूमिर्नीतीनां मणीनामिव रोहणः ॥२९ ।। विदांचकार शास्त्राणि शस्त्राणि च मझमतिः । मेदिन्याः करमादत्त दुःस्थितेभ्यो ददौ च सः ॥३०॥ लोभो यशसि नो लक्ष्म्यां त्यागो द्रव्ये न सीमनि । धर्मे च व्यसनं नाक्षादिष्वभूत्तस्य धीमतः ॥३१॥ आस्यप्रभापराभूतचन्द्रा नाम्ना प्रभावती । अभूत्तस्य महादेवी शची देवीव वज्रिणः ॥३२ ॥ पृथिव्या मण्डनं सैका तस्या शीलं च मण्डनम् । प्रक्रियामात्रमभवत् केयूरकटकादि तु ।।३३ ।। पावयन्ती सतीत्वेनामलेन सकलं जगत् । कल्याणहेतुः शुशुभे सा तीर्थमिव जङ्गमम् ॥ ३४ ॥ भोगान् सह तया देव्या बुभुजे कुम्भभूपतिः । सदा हृदयहारिण्या दाक्षायण्येव चन्द्रमाः ॥ ३५ ॥ जीवो महाबलस्याथ पूर्णायुर्वैजयन्ततः । प्रच्युत्य फाल्गुनश्वेतचतुर्थ्यां भेऽश्वयुज्यपि ॥३६ ।। चतुर्दशमहास्वप्नसूचितार्हतवैभवः । प्रभावतीमहादेव्याः कुक्षाववततार सः ।।३७ ॥ अस्मिन् गर्भस्थिते देव्यास्तृतीये मासि दोहदः । माल्येषु शयितुं जज्ञे देवताभिश्च पूरितः ।। ३८ ।। पूर्णे काले मार्गशुक्लैकादश्यां भेऽश्वयुज्यथ । प्राग्जन्ममायाजनितस्त्रीकर्मत्वेन कन्यकाम् ।।३९ ।। १ सुवर्णमयैः । २ नदीनाम् । ३ दरिद्रेभ्यः । ४ दानम् । ५ मुखकान्त्या पराभूतश्चन्द्रो यया सा ।६ अश्विन्यां मे नक्षत्रे ।
गर्भावतरणम् ।
॥५६॥

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524