Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 471
________________ (षष्ठः सर्गः । (श्रीमल्लिनाथचरितम् । त्रिषष्टिशलाकापुरुषचरिते ॥५४॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । पूर्वभवः । जयन्ति मल्लिनाथस्य मल्लीमाल्यामला गिरः । आपीयमानाः सोत्कण्ठं भव्यजन्तुमधुव्रतैः ॥१॥ श्रोतृश्रोत्रेषु पीयूषश्रोतःसन्निभमद्भुतम् । उदीरयामश्चरितं श्रीमल्लिस्वामिनोऽधुना ॥ २ ॥ द्वीपेऽत्रैव जम्बूद्वीपे विदेहेष्वपरेषु च । विजये सलिलावत्यां वीतशोकाभिधास्ति पूः ॥३॥ बलेनोच्चैर्बल इव बलस्तत्र नृपोऽभवत् । द्विषद्बलवनोन्माथकुञ्जरो निर्जराकृतिः ॥ ४ ॥ राज्ञोऽस्य धारिणीपल्यां केसरिस्वप्नसूचितः । जज्ञे महाबलो नाम सूनुरन्यूनविक्रमः ॥ ५ ॥ उद्यौवनः कमलश्रीप्रभृती राजकन्यकाः । शतानि पञ्चैकदिने पर्यणैषीन्महाबलः ।। ६ ।। तस्यासन् बालसुहृदोऽचलो धरणपूरणौ । वसुर्वैश्रवणश्चाभिचन्द्र इत्यभिधानतः ॥७॥ अपरेधुर्बलो राजा तस्याः पुर्या बहिर्मुवि । ऐशान्यामिन्द्रकुब्जाख्य उद्याने समुपेयुषाम् ॥ ८ ॥ मुनीनामन्तिके धर्म श्रुत्वा वैराग्यवासितः । राज्ये महाबलं न्यस्य प्रव्रज्य च शिवं ययौ ।। ९ ।। ॥युग्मम् ॥ कमलश्रीमहादेव्यां सिंहस्वप्नेन सूचितः । सूनुर्महाबलस्याभूदुबलभद्रोऽभिधानतः ।। १० ॥ १ मल्लीकुसुमानां मालावन्निर्मलाः । २ भव्यप्राणिन एव मधुकरास्तैः । ३ शत्रूणां बलमेव वनं तस्य मथने गजसदृशः ।। ॥५४॥

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524