Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 470
________________ त्रिषष्टि शलाका पुरुषचरिते ॥५३॥ प्रह्लादोऽपि धेनुर्ह्रादैर्द्रादयन्नभितो दिशः । डुढौके दृढदोर्दण्डो दण्डपाणिरिवोत्कटः ।। २८ ॥ उभौ मुमुचतुर्बाणान् हरिप्रतिहरी रुषा । मिथश्चिच्छिदतुश्चोभावन्योऽन्यजयकाङ्क्षिणौ ।। २९ ।। गदामुद्गरदण्डादीन्यायुधान्यपराण्यपि । परस्परं चिच्छिदतुच्छेदच्छेकावुभावपि ॥ ३० ॥ उल्काकुलं युगान्तार्कमिव ज्वालाशताकुलम् । प्रह्लादो भ्रमयित्वा खेऽमुचच्चक्रं हरिं प्रति ॥ ३१ ॥ मोघीभूतं समीपस्थं हरिश्चक्रं तदेव हि । उपादाय प्रह्लादाय मुक्त्वा चिच्छेद तच्छिरः ।। ३२ ।। तथैव कृत्वा दिग्यात्रा भरतार्धमसाधयत् । अथोद्दधे कोटिशिलामर्धचक्री च सोऽभवत् ॥ ३३ ॥ कौमारे द्वे वर्षशते मण्डलित्वे दिशां जये । प्रत्येकमब्दपञ्चाशदभूद्दत्तस्य शार्ङ्गिणः ।। ३४ ।। षट्पञ्चाशतमब्दानां सहस्राण्यतिवाह्य सः । ययौ कर्मवशाद्दत्तः पञ्चमीं नरकावनिम् ।। ३५ ।। दत्तस्य शार्ङ्गिणो जातेऽवसाने कालमत्यगात् । कथंचित् पञ्चषष्ट्यब्दसहस्रायुर्हलायुधः ।। ३६ । भ्रातृव्ययेन भवभावनया च भूरिवैराग्यवान् भुवनशोभित आत्तदीक्षः । तीव्रं व्रतं निरतिचारमपालयच्चागान्नन्दनस्तदनु सिद्धिपदप्रतिष्ठाम् ॥ ३७ ॥ # इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि दत्तनन्दनप्रह्लादचरितवर्णनो नाम पञ्चमः सर्गः । * * * * * १ धनुः शब्दः । २ यमः । ३ छेदे छेकी चतुरौ । ४ भ्रातृमरणेन । षष्ठं पर्व पञ्चमः सर्गः दत्तवासुदेवनन्दनबलदेवप्रह्लादप्रति वासुदेव चरितम् । दत्तस्य नरकगमनं नन्दनस्य च मोक्षः । ॥५३॥

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524