Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 443
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२६॥ षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् । यद्यमिथ्या दर्शय त्वमनुरूपं वरं ततः । कलायौवनरूपादि कृतार्थ मे यथा भवेत् ।। २०८ ।। वीरभद्रस्तयेत्युक्तो निजरूपमदीदृशत् । साप्यूचे त्वदधीनास्मि तहिं त्वं पतिर्मम ।। २०९ ।। अथ सोऽवोचदस्त्वेवं मापवादः स्म भूदिति । एष्याम्यतः परं नेह विज्ञप्यस्तत्त्वया नृपः ।। २१० ।। यथायं श्रेष्ठिनं शङ्ख सोपरोधं वदत्यदः । अनङ्गसुन्दरी वीरभद्राय प्रतिगृह्यताम् ।। २११ ॥ आमित्युक्ते तया वीरभद्रो निजगृहं ययौ । आहूय जननीं सद्यः सापि चैवमवोचत ।। २१२ ॥ अनुरूपवराभावात् पित्रोः खेदाय केवलम् । अभूवमहमम्बेयत्कालं शल्यमिवोरसि ॥ २१३ ।। कलारूपादिभिः स्वस्यानुरूपोऽस्ति निरूपितः । वीरभद्राभिधः शङ्खश्रेष्ठिसूनुर्मया वरः ।। २१४ ।। अधैव देहि मां तस्मै ततो विज्ञप्यतां स्वयम् । तं तातः श्रेष्ठिनं शङ्ख मदर्थेऽर्थयते यथा ।। २१५ ।। इत्युक्त्या मुदिता राज्ञी नृपं गत्वैवमभ्यधात् । दिष्ट्याद्य वर्धसे वत्सानुरूपवरलाभतः ॥ २१६ ॥ स्वयं ह्यनङ्गसुन्दर्या स्वानुरूपः परीक्षितः । शङ्खश्रेष्ठिसुतो वीरभद्रो नाम वरो युवा ।। २१७ ॥ राजाप्यूचे चिन्तयतो ममेदमिति वादिनी । चिन्तामणिरिवागास्त्वं कामधेनुरिवाथवा ॥२१८ ॥ स्थैर्य दाक्ष्यं च वत्साया अहो वरपरीक्षणे । इयत्कालमपि स्थित्वा यद्ववे वर ईदृशः ।। २१९ ॥ सद्योऽप्याह्नायितो राज्ञा बह्नीश्वरवणिग्वृतः । शङ्खश्रेष्ठ्याययौ तत्र राजानं प्रणनाम च ।। २२० । ततश्च श्रेष्ठिनं शङ्खमित्यभाषिष्ट भूपतिः । कोऽप्यायातस्ताम्रलिप्त्या युवास्ति तव वेश्मनि ।। २२१ ।। स श्रूयते च सकलकलाजलधिपारगः । अद्वैतरूपसौन्दर्यो वो गुणगणेन च ।। २२२ ।। १ साग्रहम् । २ आत्मार्थकत्वात् स्वस्येति पुंस्त्वम् । वीरभद्रवृत्तान्तः । &IR६||

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524