________________
त्रिषष्टिशलाकापुरुषचरिते
॥२६॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
यद्यमिथ्या दर्शय त्वमनुरूपं वरं ततः । कलायौवनरूपादि कृतार्थ मे यथा भवेत् ।। २०८ ।। वीरभद्रस्तयेत्युक्तो निजरूपमदीदृशत् । साप्यूचे त्वदधीनास्मि तहिं त्वं पतिर्मम ।। २०९ ।। अथ सोऽवोचदस्त्वेवं मापवादः स्म भूदिति । एष्याम्यतः परं नेह विज्ञप्यस्तत्त्वया नृपः ।। २१० ।। यथायं श्रेष्ठिनं शङ्ख सोपरोधं वदत्यदः । अनङ्गसुन्दरी वीरभद्राय प्रतिगृह्यताम् ।। २११ ॥ आमित्युक्ते तया वीरभद्रो निजगृहं ययौ । आहूय जननीं सद्यः सापि चैवमवोचत ।। २१२ ॥ अनुरूपवराभावात् पित्रोः खेदाय केवलम् । अभूवमहमम्बेयत्कालं शल्यमिवोरसि ॥ २१३ ।। कलारूपादिभिः स्वस्यानुरूपोऽस्ति निरूपितः । वीरभद्राभिधः शङ्खश्रेष्ठिसूनुर्मया वरः ।। २१४ ।। अधैव देहि मां तस्मै ततो विज्ञप्यतां स्वयम् । तं तातः श्रेष्ठिनं शङ्ख मदर्थेऽर्थयते यथा ।। २१५ ।। इत्युक्त्या मुदिता राज्ञी नृपं गत्वैवमभ्यधात् । दिष्ट्याद्य वर्धसे वत्सानुरूपवरलाभतः ॥ २१६ ॥ स्वयं ह्यनङ्गसुन्दर्या स्वानुरूपः परीक्षितः । शङ्खश्रेष्ठिसुतो वीरभद्रो नाम वरो युवा ।। २१७ ॥ राजाप्यूचे चिन्तयतो ममेदमिति वादिनी । चिन्तामणिरिवागास्त्वं कामधेनुरिवाथवा ॥२१८ ॥ स्थैर्य दाक्ष्यं च वत्साया अहो वरपरीक्षणे । इयत्कालमपि स्थित्वा यद्ववे वर ईदृशः ।। २१९ ॥ सद्योऽप्याह्नायितो राज्ञा बह्नीश्वरवणिग्वृतः । शङ्खश्रेष्ठ्याययौ तत्र राजानं प्रणनाम च ।। २२० । ततश्च श्रेष्ठिनं शङ्खमित्यभाषिष्ट भूपतिः । कोऽप्यायातस्ताम्रलिप्त्या युवास्ति तव वेश्मनि ।। २२१ ।। स श्रूयते च सकलकलाजलधिपारगः । अद्वैतरूपसौन्दर्यो वो गुणगणेन च ।। २२२ ।। १ साग्रहम् । २ आत्मार्थकत्वात् स्वस्येति पुंस्त्वम् ।
वीरभद्रवृत्तान्तः ।
&IR६||