________________
S
त्रिषष्टिशलाकापुरुषचरिते
॥२७॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
शङ्खोऽप्युवाच देवैवं गुणान् वेत्ति जनः पुनः । राजापि व्याजहाराथ स त्वदाज्ञावशे न वा ।। २२३ ।। शङ्खश्रेष्ठ्यप्यभाषिष्ट स्वामिन् किमिदमुच्यते । तस्यैव हि गुणक्रीतो वशवर्ती जनोऽखिलः ॥ २२४ ॥ अभ्यधाद्भूपतिर्भूयस्तत्कृतेऽनङ्गसुन्दरी । अद्यैव गृह्यतां श्रेष्ठिश्चिराद्योगोऽस्तु योग्ययोः ।। २२५ ।। श्रेष्ठ्यूचे त्वं हि नः स्वामी पाल्यास्तव वयं प्रजाः । सम्बन्धश्च सखित्वं च समयोरेव शोभते ।। २२६ ।। राजापीत्यादिशन् किं मां प्रत्यादिशसि भङ्गितः । कुर्वाज्ञां मे निर्विचारं गत्वा सज्जीभव द्रुतम् ।। २२७ ॥ आदृत्य शङ्ख राजाज्ञामुपेत्य च निजे गृहे । आचख्यौ वीरभद्राय तत्सर्वं राजशासनम् ।। २२८ ॥ अनङ्गसुन्दरीवीरभद्रयोर्ववृते ततः । महाविभूत्या विवाहः शुभे लग्ने शुभे दिने ।। २२९ ।। परस्परं तयोः प्रीतिरवर्धत दिने दिने । सा स्यात् स्वयंवरवधूवरयोर्तुत्तरोत्तरा ।। २३० ।। जैन धर्म दिशन् वीरभद्रस्तां श्राविकां व्यधात् । आस्तामत्र सतां सङ्गः परलोकेऽपि शर्मणे ।।२३१ ॥ पटेऽर्हत्प्रतिमा सङ्घ चतुर्विधमपि स्वयम् । स लिखित्वार्पयत्तस्यै सम्यगज्ञापयच्च ताम् ।। २३२ ॥ वीरभद्रोऽन्यदा दध्यौ मयि स्निग्धेयमीक्ष्यते । स्त्रीणां प्रकृतिलोलानां परं स्थैर्ये न निश्चयः ।। २३३ ।। भवत्वाशयमेतस्या ज्ञास्यामीति विमृश्य सः । वैदग्ध्यसुन्दरोऽनङ्गसुन्दरीमित्यभाषत ।। २३४ ॥ त्वत्तः प्रियतमे किचिदन्यत् प्रियतमं न मे । स्वदेशगमनायाहं त्वामापृच्छे तथापि हि ॥ २३५ ।। यतश्चिरं मत्पितरौ मद्वियोगकदर्थितौ । अतीव दुःखमासाते तद्गत्वाश्वासयामि तौ ।।२३६ ।। इहैव तिष्ठेः सुभ्र त्वं भूयोऽप्येष्याम्यहं द्रुतम् । न खलु त्वां विनान्यत्राहमपि स्थातुमीश्वरः ॥२३७ ।। १ वचनरचनया । २ अकीकृत्य । ३ प्रीतिः । ४ बोधयामास ।
वीरभद्रवृत्तान्तः ।
AHASRASHARABHASHRSHA
॥२७॥