________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२८॥
साप्युवाच म्लानमुखी त्वयेदं साधु जल्पितम् । यत्राकर्णितमात्रेऽपि यियासन्तीव मेऽसेवः ॥ २३८ ।। ज्ञातं कठिनचित्तोऽसि य एवं वक्तुमीश्वरः । त्वादृशी यद्यहमपि तदा स्यां श्रोतुमीश्वरा ।। २३९ ॥ वीरभद्रस्तयेत्युक्तोऽब्रवीन्मा स्म कुपः प्रिये । सहैव नयनोपायश्चिन्तितोऽयं मया तव ।। २४० ।। आपप्रच्छे सनिर्बन्धं वीरभद्रस्ततो नृपम् । सहैवानङ्गसुन्दर्या स्वदेशगमनं प्रति ।। २४१ ॥ कथंचिद्व्यसृजद्राजा वीरभद्रं प्रियान्वितम् । पुत्रीजामातृविरहः प्रायः कस्य न दुःसहः ।। २४२ ।। पोतारूढौ ततस्तौ तु चेलतुर्जलवर्त्मना । गतिः साहसिकानां हि समा स्थलजलाध्वनोः ।। २४३ ।। पत्री कार्मुकोन्मुक्तो नीडोत्थित इवाण्डजः । प्रससार ततः पोतोऽनुकूलमरुदीरितः ।। २४४ ॥ कियन्तमपि चाध्वानं स पोतो यावदभ्यगात् । तावद्ववौ महावायुः कल्पान्तानिलसन्निभः ।। २४५ ॥ कल्पान्त इव पाथोधिरुद्धमन्नतिभीषणः । पोतमुच्छालयामास तृणपूलमिव द्विपः ।। २४६ ॥ मुहुरुच्छाल्यमानः सन् भ्रामं भ्रामं त्रिवासरीम् । ग्रावोपरि परिभ्रष्टाण्डजाण्डमिव चास्फुटत् ॥ २४७ ।। पोते स्फुटितमात्रेऽपि संप्रापानङ्गसुन्दरी । एकं तदीयफलकं मृत्युर्नात्रुटितायुषः ॥ २४८ ॥ उल्लाल्यमाना कल्लोलैर्हंसीवानङ्गसुन्दरी । प्रपेदे पञ्चरात्रेण तटमेकं वनाकुलम् ॥ २४९ ॥ स्वबान्धववियोगेन विदेशगमनेन च । प्रियस्य विप्रयोगेण भङ्गेन वाहनस्य च ।। २५० ॥ धनक्षयेण कल्लोलास्फालनेन क्षुधापि च । तृषा च विधुरा वारिमानुषीव जलाद्द्बहिः ।। २५१ ।। १ यातुमिच्छन्ति । २ प्राणाः । ३ बाण इव । ४ पक्षी । ५ त्रयाणां वासराणां दिनानां समाहारस्ताम् । ६ दृषदुपरि ।
षष्ठं पर्व द्वितीयः
सर्गः
श्रीअरनाथ
जिनचरितम् ।
वीरभद्र
वृत्तान्तः ।
॥२८॥