Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 462
________________ त्रिषष्टिशलाकापुरुषचरिते ॥४५॥ षष्ठं पर्व चतुर्थः सर्गः सुभूमचक्रवर्ति चरितम् । न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ।। २७ ।। तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ।। २८ ।। चटकश्चटकामूचे यास्यामि हिमवद्गिरौ । अन्यासक्तो नेष्यसि त्वमिति तं नाप्यमस्त सा ।।२९ ।। गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्चटकं चटकाब्रवीत् ।। ३० ॥ ऋषेरस्यैनसा गृह्ये शपेथा इति चेत् प्रिय । विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥३१॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणी ।। ३२ ।। आचचक्षे ततः सोऽपि कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वान्तमाः पापं मयि कीदृशम् ॥३३ ॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न किं श्रुतिम् ।। ३४ ।। तथेति मन्यमानस्तु मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे सूत्रितं तपः ।। ३५ ॥ तं दृष्ट्वा क्षुभितं ध्यायन् भ्रमितस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान्न कः ।। ३६ ।। बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिककोष्टकम् ।। ३७ ।। जितशत्रु महीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां गौरी हर इवागमत् ।। ३८ ॥ कृत्वाभ्युत्थानमुर्वीशः प्राअलिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् ।। ३९ ।। १ वटमिव ।२ वल्मीकेन व्याप्तं पादप्रान्तं यस्य तम् । ३ अन्यस्त्रियामासक्तः । ४ उक्तः शपथो येन तम् । ध्वान्ताम् माः-लक्ष्म्यः ताः । ५ तापसैरहं भ्रमित इति ध्यायन् धन्वन्तरिः श्रावको जात इत्यन्वयः । ६ प्रकर्षेणाप्तुमिच्छुः । ७ पार्वतीम् “दक्ष मिति पाठान्तरे दक्षनृपं प्रति । जमदग्निवृत्तान्तः । ||॥४५॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524