Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 446
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२९॥ | षष्ठं पर्व द्वितीयः सर्गः | श्रीअरनाथजिनचरितम् । अपसंज्ञेव पतिता निसर्गकरुणाजुषा । सा तापसकुमारेण ददृशेऽत्याया दृशा ।। २५२ ।। ॥त्रिभिर्विशेषकम् ॥ तामुत्थाप्याश्रमपदे सोऽनैषीद्भगिनीमिव । विश्रब्धा पुत्रि तिष्ठेहेत्यूचे कुलपतिश्च ताम् ।। २५३ ॥ पाल्यमाना तापसीभिर्दिनैः कतिपयैरपि । समजायत सा स्वस्था स्थिता पितुरिवौकसि ।। २५४ ।। तस्याः कुलपती रूपातिशयादित्यचिन्तयत् । अत्रस्थेयं तापसानां स्यात्समाधिच्छिदे ध्रुवम् ।। २५५।। ततस्तापसवृद्धस्तामित्यूचेऽनङ्गसुन्दरीम् । इतोऽस्त्यदूरतो वत्से पद्मिनीखण्डपत्तनम् ।।२५६ ॥ वसन्ति सन्तः प्रायेण जनास्तत्र महाधनाः । भवत्यास्तत्र तिष्ठन्त्याः स्वास्थ्यमुत्पत्स्यतेतमाम् ।। २५७ ॥ अवश्यं तत्र भावी ते भा च सह सङ्गमः । तत्तत्र गच्छ वत्से त्वं जरद्भिस्तापसैः समम् ।। २५८ ॥ इत्याज्ञया कुलपतेः सा जरत्तापसैर्वृता । हंसीव पद्मिनीखण्डं पद्मिनीखण्डमभ्यगात् ।। २५९ ।। पुरे प्रवेशो नास्माकमह इत्यभिधाय ताम् । पुरादबहिरपि त्यक्त्वा जग्मुावृत्त्य तापसाः ।। २६०॥ विदधाना दिवं दृष्टिपातैः सकुमुदामिव । वीक्षमाणा दिशो यूथपरिभ्रष्टैणिकेंव सा ।। २६१ ।। कार्यचिन्तार्थमायान्तीं व्रतिनीभिः समावृताम् । गणिनी सुव्रतानाम्नी ददर्शाम्बां निजामिव ।। २६२ ।। ॥युग्मम् ।। सस्मार च यदेतास्ताः पत्या मे निजपाणिना । अनवद्या जगद्वन्द्या लिखित्वा दर्शिताः पटे ।। २६३ ।। इति संस्मृत्य सा पूर्वाभ्यस्तेन विधिना द्रुतम् । उपेत्य सुव्रतापादान ववन्दे व्रतिनीश्च ताः ।। २६४ ॥ १ मूर्छिता । २ मृगीव । ३ स्थण्डिलार्थम् । वीरभद्रवृत्तान्तः। ॥२९॥

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524