Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 452
________________ षष्ठं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥३५॥ सर्गः श्रीअरनाथ जिन चरितम् । पुर्या निर्याय भूत्वा च कृष्णो गुटिकयाथ सः । पर्यटन विविधान् देशान् सिंहलद्वीपमासदत् ।। ३३८ ॥ तत्र रत्नपुरे श्रेष्ठिशङ्खहट्टे निषेदिवान् । श्रेष्ठिना ज्ञातवृत्तान्तो निन्ये च निजवेश्मनि ।। ३३९ ।। पुत्रत्वेन प्रत्यपादि श्रेष्ठिश्रेष्ठेन तेन सः । सुखं चास्थात् पुरे तत्र कलाभिः कृतविस्मयः ।। ३४० ।। समं विनयवत्याथ श्रेष्ठिपुत्र्या जगाम सः । स्त्रीवेषोऽनङ्गसुन्दर्या राजपुत्र्या निकेतने ॥ ३४१ ॥ कलाभिर्हतचित्तां तां ज्ञापितात्मा क्रमेण सः । पितृदत्तामुपायंस्त चिरं भोगानभुङ्क्त च ।। ३४२ ।। तां गृहीत्वा गच्छतश्च ताम्रलिप्ति पुरी प्रति । भग्नं प्रवहणं तस्य दैवात्तत्रैव वारिधौ ।। ३४३ ।। सम्प्रत्यहं व्रजिष्यामि राजसेवाक्षणो ह्ययम् । सेवकानां विना सेवां भज्यते खलु जीविका ।। ३४४ ।। ततश्चानङ्गसुन्दर्या सोपरोधमभाणि सः । भद्र क्व वीरभद्रोऽस्ति सोऽधुनाख्याहि सर्वथा ॥ ३४५ ।। आख्यातास्मि श्व इत्युक्त्वा राजवेश्म जगाम सः । राज्ञे तमपि वृत्तान्तं शशंसू राजपूरुषाः ॥३४६ ॥ तृतीयेऽप्यह्नि तत्रैत्य शशंसेति स वामनः । वीरभद्रस्तत्र दैवादेकं फलकमासदत् ।। ३४७ ॥ ततो विद्याधरश्चागान्नामतो रतिवल्लभः । तं ददर्श च निन्येऽथ वैताळ्याद्रौ स्ववेश्मनि ।। ३४८ ।। अब्धेरुद्धृतमात्रोऽपि गुटिकां श्यामिकाकरीम् । अपकृष्याभवद्गौरस्ताम्रलिप्त्यामिव स्थितः ।। ३४९ ॥ स्वं च सिंहलवास्तव्यं बुद्धदासं च नामतः । पृष्टः शशंस स रतिवल्लभस्यातिवल्लभः ।। ३५० ॥ पुत्री रत्नप्रभाख्यां स तेनोक्तः परिणीतवान् । रमयंश्च सुखं तस्थौ विलासोपवनादिषु ।। ३५१ ।। तया सह क्रीडितुं च सोऽन्यदात्र समाययौ । मुक्त्वेह तामाचमनव्याजाच्चागमदन्यतः ।। ३५२ ।। यास्याम्यहमपीदानीमित्युक्त्वा स समुत्थितः । ऊचे च रत्नप्रभया बुद्धदासः क्व सोऽधुना ।। ३५३ ।। वीरभद्रवृत्तान्तः । ॥३५॥

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524