________________
षष्ठं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥३५॥
सर्गः श्रीअरनाथ
जिन
चरितम् ।
पुर्या निर्याय भूत्वा च कृष्णो गुटिकयाथ सः । पर्यटन विविधान् देशान् सिंहलद्वीपमासदत् ।। ३३८ ॥ तत्र रत्नपुरे श्रेष्ठिशङ्खहट्टे निषेदिवान् । श्रेष्ठिना ज्ञातवृत्तान्तो निन्ये च निजवेश्मनि ।। ३३९ ।। पुत्रत्वेन प्रत्यपादि श्रेष्ठिश्रेष्ठेन तेन सः । सुखं चास्थात् पुरे तत्र कलाभिः कृतविस्मयः ।। ३४० ।। समं विनयवत्याथ श्रेष्ठिपुत्र्या जगाम सः । स्त्रीवेषोऽनङ्गसुन्दर्या राजपुत्र्या निकेतने ॥ ३४१ ॥ कलाभिर्हतचित्तां तां ज्ञापितात्मा क्रमेण सः । पितृदत्तामुपायंस्त चिरं भोगानभुङ्क्त च ।। ३४२ ।। तां गृहीत्वा गच्छतश्च ताम्रलिप्ति पुरी प्रति । भग्नं प्रवहणं तस्य दैवात्तत्रैव वारिधौ ।। ३४३ ।। सम्प्रत्यहं व्रजिष्यामि राजसेवाक्षणो ह्ययम् । सेवकानां विना सेवां भज्यते खलु जीविका ।। ३४४ ।। ततश्चानङ्गसुन्दर्या सोपरोधमभाणि सः । भद्र क्व वीरभद्रोऽस्ति सोऽधुनाख्याहि सर्वथा ॥ ३४५ ।। आख्यातास्मि श्व इत्युक्त्वा राजवेश्म जगाम सः । राज्ञे तमपि वृत्तान्तं शशंसू राजपूरुषाः ॥३४६ ॥ तृतीयेऽप्यह्नि तत्रैत्य शशंसेति स वामनः । वीरभद्रस्तत्र दैवादेकं फलकमासदत् ।। ३४७ ॥ ततो विद्याधरश्चागान्नामतो रतिवल्लभः । तं ददर्श च निन्येऽथ वैताळ्याद्रौ स्ववेश्मनि ।। ३४८ ।। अब्धेरुद्धृतमात्रोऽपि गुटिकां श्यामिकाकरीम् । अपकृष्याभवद्गौरस्ताम्रलिप्त्यामिव स्थितः ।। ३४९ ॥ स्वं च सिंहलवास्तव्यं बुद्धदासं च नामतः । पृष्टः शशंस स रतिवल्लभस्यातिवल्लभः ।। ३५० ॥ पुत्री रत्नप्रभाख्यां स तेनोक्तः परिणीतवान् । रमयंश्च सुखं तस्थौ विलासोपवनादिषु ।। ३५१ ।। तया सह क्रीडितुं च सोऽन्यदात्र समाययौ । मुक्त्वेह तामाचमनव्याजाच्चागमदन्यतः ।। ३५२ ।। यास्याम्यहमपीदानीमित्युक्त्वा स समुत्थितः । ऊचे च रत्नप्रभया बुद्धदासः क्व सोऽधुना ।। ३५३ ।।
वीरभद्रवृत्तान्तः ।
॥३५॥