________________
त्रिषष्टिशलाका
पुरुषचरिते
॥३६॥
आख्यास्याम्यपरं प्रातरित्युत्थाय जगाम सः । ताश्चैकपतिसंवादात्तिस्रोऽप्युच्चैरुदश्वसन् ॥ ३५४ ॥ स एष तव जामाता वामनः श्रेष्ठिसागर । रमणस्तिसृणां तासां क्रीडया विरहं ददौ ।। ३५५ ॥ वामनोऽपि जगादैवं वन्दित्वा गणभृद्वरम् । युष्मज्ज्ञानदृशा दृष्टमेवमेतद्धि नान्यथा ।। ३५६ ।। पूर्णद्वितीयपौरुष्यां कुम्भो गणधराग्रणीः । व्यसृज़द्देशनां तेषां तावत्कालैव देशना ।। ३५७ ।। नत्वा गणधरं कुम्भं वामनेन सहैव सः । श्रेष्ठी सागरदत्तोऽगान्मुदितस्तं प्रतिश्रयम् ।। ३५८ ।। तास्तं वामनमायान्तं तिस्रोऽपि प्रेक्ष्य तत्क्षणम् । उपाजग्मुः प्रियोदन्ताहरः कस्य न वल्लभः ।। ३५९ ।। ऊचे सागरदत्तोऽपि पतिर्वस्तिसृणामसौ । ताभिश्च कथमित्युक्तस्तदाख्यदखिलं च सः ।। ३६० ।। तिस्रोऽपि विस्मयं प्रापुर्गणिन्या सममेव ताः । प्रविश्यान्तर्वामनोऽपि वामनत्वं मुमोच तत् ।। ३६१ ।। यादृशोऽनङ्गसुन्दर्या दृष्टस्तादृगभूत्पुरः । पुनः श्यामत्वमुत्सृज्य गौरत्वं प्रत्यपद्यत ।। ३६२ । सर्वाभिः प्रत्यभिज्ञातः सोत्कण्ठाभिः समादृतः । गणिन्याभिदधे चैवं किमेतद्भवता कृतम् ॥ ३६३ ॥ सोऽप्यभ्यधाद्भगवति क्रीडया निरगां गृहात् । क्रीडयोपेक्षितस्तासामिहापि विरहो मया ।। ३६४ ।। सुव्रतागणिनी चैवमवोचत्तात्त्विकं वचः । दूरे देशान्तरेऽरण्ये पर्वते वारिधावपि ।। ३६५ ।। अन्यत्र वा दुःखपदे यान्ति यत्रापि धर्मिणः । तत्रापि सौख्यमतुलं लभन्ते निजवेश्मवत् ।। ३६६ ।। भोगाः सत्पात्रदानानुभावादित्यार्हतं वचः । कस्मै दत्तमनेनेति पृच्छामोऽरजिनेश्वरम् ॥ ३६७ ॥ गणिनी सागरदत्तो वीरभद्रः प्रियान्वितः । अरस्वामिनमभ्येयुः प्रणेमुश्च यथाविधि ।। ३६८ ।। कर्मभोगफलं वीरभद्रः किं प्राग्भवे व्यधात् । इति सुव्रतया पृष्टो जगाद परमेश्वरः ।। ३६९ ।।
षष्ठं पर्व द्वितीयः सर्गः
श्रीअरनाथ
जिनचरितम् ।
वीरभद्र
वृत्तान्तः ।
॥३६॥