________________
त्रिषष्टिशलाकापुरुषवरिते
॥३७॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ
जिनचरितम् ।
इतो भवे तृतीये मे प्राग्विदेहेषु पुष्कलम् । राज्यं त्यक्त्वा व्रतभृतः पृथ्व्यां विहरतः सतः ।। ३७० ।। चतुर्मासोपवासान्ते पुरे रत्नपुराभिधे । श्रेष्ठिसूर्जिनदासाख्यो भक्त्या भिक्षां ददावसौ ।। ३७१ ।। तेन पुण्येन देवोऽभुद्ब्रह्मलोके ततश्च्युतः । जम्बूद्वीपस्यैरवते काम्पील्येऽभून्महेभ्यभुक् ।। ३७२ ।। तत्रापि परमर्द्धिः सन् श्रावकत्वं प्रपाल्य च । मृत्वाच्युतेऽभवद्देवस्ततश्च्युत्वा त्वभूदसौ ॥ ३७३ ॥ पुण्यानुबन्धिना तेन पुण्येनेह भवेऽप्ययम् । भुङ्क्ते भोगान्यत्र तत्र पुण्यं ह्यनुचरं नृणाम् ।।३७४ ।। भगवानेवमाख्याय प्रतिबोध्य बहूञ्जनान् । जगन्मोहमपहरन् विहरन्नन्यतो ययौ ।। ३७५ ॥ भुक्त्वा भोगांश्चिरं वीरभद्रः प्रव्रज्य च क्रमात् । दृढपुण्यरथारूढो देवलोकं जगाम सः ॥३७६ ॥ सहस्राण्यथ पञ्चाशच्छ्रमणानां महात्मनाम् । तीव्रव्रतानां साध्वीनां पुनः षष्टिसहस्यपि ।। ३७७ ॥ चतुर्दशपूर्वभृतां दशाग्राणि शतानि षट् । अवधिज्ञानभाजां तु द्वे सहने सषट्शते ॥३७८ ।। सार्धे सहने द्वे एकपञ्चाशच्च मनोविदाम् । द्वे सहसे साष्टशते केवलज्ञानधारिणाम् ।।३७९ ॥ जातवैक्रियलब्धीनां त्रिसप्ततिशती पुनः । संजातवादलब्धीनां सहस्रं षट् शतानि च ॥३८० ।। श्रावकलक्षे षोडशसहस्रोने उभे पुनः । तिस्रो लक्षाः श्राविकाणां द्वासप्ततिसहस्यपि ।। ३८१ ।। आ केवलात्रिवर्षोनाब्दसहस्रकविंशतिम् । वसुंधरां विहरतः परिवारोऽभवत् प्रभोः ।। ३८२ ।। निर्वाणकालं ज्ञात्वा च स्वामी सम्मेतमभ्यगात् । समं मुनिसहस्रेणानशनं प्रत्यपादि च ।। ३८३ ।। १ व्रतं बिभर्ति तस्य । २ महश्च तदिभ्यं धनं च तद्भुनक्तीति विग्रहः ।
वीरभद्रपूर्वभवः ।
॥३७॥