________________
त्रिषष्टिशलाकापुरुषचरिते
॥३८॥
मासान्ते च मार्गशुद्धदशम्यां पौष्णगे विद्यौ । समं तैर्मुनिभिः स्वामी जगाम पदमव्ययम् ।। ३८४ ।। कौमारराज्यचक्रित्वव्रतेषु समभागकम् । आयुश्चतुरशीत्यब्दसहस्राण्यभवत् प्रभोः ।।३८५ ।। वर्षकोटिसहस्रोने पल्यतुर्याशके गते । श्रीकुन्थुमोक्षान्मोक्षोऽभूच्छीमतोऽरजिनेशितुः ।। ३८६ ।।
तत्रारनाथस्य मुनीश्वरैस्तैः शिवं सहोपेयुष एत्य भक्त्या । शरीरसंस्कारपुरस्सरं ते निर्वाणकल्याणमकार्षुरिन्द्राः ।।३८७ ।।
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
जिननिर्वाणम् ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
षष्ठे पर्वणि श्रीअरनाथवर्णनो नाम
द्वितीयः सर्गः ।
SARANASASARSA
॥३८॥
१ पल्योपमस्य चतुर्थाशे गते सति । २ प्राप्तस्य ।