________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥३४॥
स्माह राजपुमान् कांचित्कथां शंस सकौतुकाम् । किं कथां वृत्तकमथ वच्मीत्यूचे च वामनः ॥। ३२३ ।। कथावृत्तकभेदं तु पृष्टः प्रोवाच वामनः । वृत्तकं स्वानुभूतं स्यात् प्राक्पुंसां चरितं कथा ।। ३२४ ॥ वृत्तकं कथ्यतां तत्युक्ते वामनकोऽवदत् । अस्तीह भरते नाम्ना ताम्रलिप्ती महापुरी ।। ३२५ । तस्यामृषमदत्तोऽस्ति श्रेष्ठी श्रेष्ठतरो गुणैः । वाणिज्यया सोऽन्यदागात् पद्मिनीखण्डपत्तनम् ।। ३२६ । तत्र सागरदत्तस्य कन्यकां प्रियदर्शनाम् । दृष्ट्वोदवाहयत्स्वेन वीरभद्रेण सूनुना ।। ३२७ ॥ सार्धं तया वीरभद्रोऽन्वभूद्वैषयिकं सुखम् । निशीथेऽलीकसुप्तां तामुदस्थापयदन्यदा ।। ३२८ ।। मा कदर्थय मां जातशिरोऽर्तिमिति सावदत् । किंदोषेणेति तेनोक्ते त्वद्दोषेणेति सावदत् ॥ ३२९ ॥ स्वं दोषं तेन सा पृष्टा जगाद प्रियदर्शना । किमीदृशेऽपि समये विदग्धोक्तिस्तव प्रिय ॥ ३३० ॥ भूयो नैवं करिष्यामीत्युक्त्वा सोऽरमयच्च ताम् । सद्भावसुप्तां मुक्त्वाथ विदेशं तत्पतिर्ययौ ।। ३३१ ।। आख्यायैवं वामनस्तु मम राजकुलेऽधुना । सेवाक्षणोऽतियातीति समुत्तस्थौ ससंभ्रमः ।। ३३२ ॥ प्रियदर्शनयोत्तिष्ठन् स भूयोऽभाषि सादरम् । क्व गतो वीरभद्रोऽस्ति ब्रूहि वेत्स्येव वामन ।। ३३३ ।। व्याहरद्वामनोऽप्येवं नाहं परमहिलया । सहालपामि स्वकुलकलङ्कचकितः सदा ।। ३३४ ।। साप्युवाच कुलाईं हि तव शीलं किमुच्यते । दाक्षिण्याच्छंसतस्तद्धि कुलीनस्यादिमो गुणः ।। ३३५ ॥ तर्हि श्वः शंसितास्मीति गदित्वा वामनो ययौ । स्वैराख्याते तदुदन्ते नरेन्द्रोऽपि विसिष्मिये ॥ ३३६ ॥ द्वितियेऽह्नि तथैवागात् स गणिन्याः प्रतिश्रयम् । अत्यादृतानां तासां च भूयोऽप्याख्यत्कथामिति ॥ ३३७ ॥ १ कस्य दोषः किंदोषस्तेन । २ परस्त्रिया । ३ कथयतः । ४ आप्तपुरुषैः ।
षष्ठं पर्व
द्वितीयः सर्गः श्रीअरनाथ
जिनचरितम् ।
वीरभद्रवृत्तान्तः ।
॥ ३४ ॥