Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते
॥३३॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
साख्यत्सिहलवास्तव्यो गौरोऽखिलकलानिधिः । बुद्धदासाभिधानश्च भर्ता रूपस्मरो मम ॥३०९ ॥ प्रियदर्शनयाथोचे संवदत्येव मे पतिः । न तु सिंहलवासित्वं बुद्धदासाभिधा न च ।। ३१० ॥ ऊचे चानङ्गसुन्दर्या वर्णः सिंहलवासिता । बुद्धदासाभिधा चेति विसंर्वदति मत्पतेः ।।३११ ॥ भगिन्य इव तिस्रोऽपि तपःस्वाध्यायतत्पराः । पुंवार्तामप्यकुर्वन्त्यः सन्ति तास्तत्प्रतिश्रये ॥ ३१२ ॥ तिस्रोऽपि प्रेयसीस्तत्र स मायावामनोऽन्वहम् । निरीक्षते मोदते च तासां शीलेन हारिणा ॥३१३ ॥ अन्यदेशानचन्द्रस्य राज्ञः पर्षद्यभूत्कथा । पुरे यदस्मिन्नार्यायाः सुव्रतायाः प्रतिश्रये ॥३१४ ।। रूपवत्यो युवतयस्तिस्रः सन्ति महात्मिकाः । तस्यास्त्रीणीव रत्नानि धात्रीपावित्र्यकारणम् ॥३१५ ॥ सतीमतल्लिकास्ताश्च सतीः पथि कुलोचिते । न हि कश्चिदलंभूष्णुरपि भाषयितुं पुमान् ।। ३१६ ॥ स मायावामनोऽथोचे भाषयिष्याम्यहं क्रमात् । मम पश्यत सामर्थ्य कर्मण्यत्रापि दुष्करे ॥३१७ ॥ प्रधानै राजपुरुषैर्वृतः कतिपयैरपि । पौरेरन्वीयमानोऽगात् स गणिन्याः प्रतिश्रयम् ।। ३१८ ॥ स्थित्वा प्रतिश्रयद्वारे सोऽशात् सहचरानिति । प्रष्टव्यं तत्र युष्माभिः कथां कथय कामपि ।।३१९ ।। स विविक्तपरीवारः प्राविशत्तं प्रतिश्रयम् । ववन्दे सुव्रतामन्या वतिनीश्चामलव्रताः ।। ३२० ॥ निर्गत्योपाविशद् द्वारमण्डपे कूटवामनः । तिम्रोऽप्येयुः सवतिन्यस्तास्तद्दर्शनकौतुकात् ।। ३२१ ॥ अथोचे वामनो यावद्राज्ञो नावसरं किल । स्थास्यामस्तावदत्रैव विनोदाक्षिप्तचेतसः ।। ३२२ ॥ १ रूपेण कामदेवः । २ एतावद्भिन्नत्वमन्यत्सर्वं कलादिकं समानमित्यर्थः । ३ मायया वामनरूपधर इत्यर्थः । ४ पतिव्रतासु मतल्लिकाः श्रेष्ठाः । ५ वर्तमानाः । ६ उपादिशत् । ७ अल्पपरिवारः ।
वीरभद्रवृत्तान्तः ।
॥३३॥

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524