Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 441
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ २४ ॥ मनुष्यवालं तन्मध्यात् स शल्यं हृदयादिव । आकृष्य दर्शयामास तस्या विस्मयमादधत् ।। १८० ।। तत्तन्त्रीं सज्जयित्वाथ भूयो दंडे निबध्य च । वादयामास तां वीणां प्रावीण्यजिततुम्बरुः ।। १८१ ।। स्वरानुत्पादयामास सारण्या सुस्फुटश्रुतीन् । तानांश्च कूटतानांश्च व्यक्तव्यञ्जनधातुकान् ।। १८२ ।। वाद्यप्रकारमाश्रित्य सकलं निष्कलं च सः । रागं प्रपञ्चयामास विपंच्यां श्रवणामृतम् ।। १८३ ॥ सानङ्गसुन्दरी सा च पर्षदुत्कर्षहर्षभाक् । आलेख्यलिखितेवाऽस्थाद्गीतहार्या मृगा अपि ।। १८४ ॥ तद्वीणागीतमाकर्ण्य दध्यौ सा राजकन्यका । ईदृशं गुणवत्पात्रं देवानामपि दुर्लभम् ।। १८५ । निरर्थकं किं च मम जन्मापि ह्यनया विना । शोभते पुष्पदाम्नैव प्रतिमा सकलापि हि ।। १८६ ॥ तस्या अवसरप्राप्तमन्यास्वपि कलासु सः । प्रावीण्यं दर्शयामास तन्मनोवित्ततस्करः ।। १८७ ।। वीरभद्रः स्वानुरक्तां विज्ञायानङ्गसुन्दरीम् । अन्यदा श्रेष्ठिनं शङ्खं रहस्येवमवोचत ।। १८८ ॥ पृष्ठतो विनयवत्यास्तात प्रत्यहमप्यहम् । गच्छाम्यनङ्गसुन्दर्याः पार्श्वे युवतिवेषभृत् ।। १८९ ।। तद्युष्माभिर्न भेतव्यं करिष्येऽहं तथा यथा । न कोऽप्यनर्थो भावी वो भावि प्रत्युत गौरवम् ॥ १९० ।। मह्यं दातुं निजां कन्यां चेद्वः प्रार्थयते नृपः । तदादौ नानुमन्तव्यं मान्यमत्याग्रहे सति ।। १९१ । श्रेष्ठ्यपि व्याजहारैवं त्वं वेत्स्यभ्यधिको धिया । एकं तु ब्रूमहे वत्स कार्यं कुशलमात्मनः ।। १९२ ॥ वीरभद्रः प्रत्युवाच विमनास्तात मा स्म भूः । पश्याचिराच्छुमोदकं स्वसूनोः कर्म शोभनम् ।। १९३ ॥ वत्स वेत्सि त्वमित्युक्त्वा स श्रेष्ठी मौनमाश्रयत् । रत्नाकरनृपास्थीने वार्तेति च तदाभवत् ।। १९४ ।। १ शुभपरिणामम् । २ आस्थानं सभा । 6 षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ जिनचरितम् । वीरभद्र वृत्तान्तः । ॥२४॥

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524