________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २४ ॥
मनुष्यवालं तन्मध्यात् स शल्यं हृदयादिव । आकृष्य दर्शयामास तस्या विस्मयमादधत् ।। १८० ।। तत्तन्त्रीं सज्जयित्वाथ भूयो दंडे निबध्य च । वादयामास तां वीणां प्रावीण्यजिततुम्बरुः ।। १८१ ।। स्वरानुत्पादयामास सारण्या सुस्फुटश्रुतीन् । तानांश्च कूटतानांश्च व्यक्तव्यञ्जनधातुकान् ।। १८२ ।। वाद्यप्रकारमाश्रित्य सकलं निष्कलं च सः । रागं प्रपञ्चयामास विपंच्यां श्रवणामृतम् ।। १८३ ॥ सानङ्गसुन्दरी सा च पर्षदुत्कर्षहर्षभाक् । आलेख्यलिखितेवाऽस्थाद्गीतहार्या मृगा अपि ।। १८४ ॥ तद्वीणागीतमाकर्ण्य दध्यौ सा राजकन्यका । ईदृशं गुणवत्पात्रं देवानामपि दुर्लभम् ।। १८५ । निरर्थकं किं च मम जन्मापि ह्यनया विना । शोभते पुष्पदाम्नैव प्रतिमा सकलापि हि ।। १८६ ॥ तस्या अवसरप्राप्तमन्यास्वपि कलासु सः । प्रावीण्यं दर्शयामास तन्मनोवित्ततस्करः ।। १८७ ।। वीरभद्रः स्वानुरक्तां विज्ञायानङ्गसुन्दरीम् । अन्यदा श्रेष्ठिनं शङ्खं रहस्येवमवोचत ।। १८८ ॥ पृष्ठतो विनयवत्यास्तात प्रत्यहमप्यहम् । गच्छाम्यनङ्गसुन्दर्याः पार्श्वे युवतिवेषभृत् ।। १८९ ।। तद्युष्माभिर्न भेतव्यं करिष्येऽहं तथा यथा । न कोऽप्यनर्थो भावी वो भावि प्रत्युत गौरवम् ॥ १९० ।। मह्यं दातुं निजां कन्यां चेद्वः प्रार्थयते नृपः । तदादौ नानुमन्तव्यं मान्यमत्याग्रहे सति ।। १९१ । श्रेष्ठ्यपि व्याजहारैवं त्वं वेत्स्यभ्यधिको धिया । एकं तु ब्रूमहे वत्स कार्यं कुशलमात्मनः ।। १९२ ॥ वीरभद्रः प्रत्युवाच विमनास्तात मा स्म भूः । पश्याचिराच्छुमोदकं स्वसूनोः कर्म शोभनम् ।। १९३ ॥ वत्स वेत्सि त्वमित्युक्त्वा स श्रेष्ठी मौनमाश्रयत् । रत्नाकरनृपास्थीने वार्तेति च तदाभवत् ।। १९४ ।। १ शुभपरिणामम् । २ आस्थानं सभा ।
6
षष्ठं पर्व द्वितीयः सर्गः
श्रीअरनाथ
जिनचरितम् ।
वीरभद्र
वृत्तान्तः ।
॥२४॥