________________
त्रिषष्टिशलाकापुरुषचरिते I२३॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
प्रम्लानं वदनं चञ्चूः श्लथोपात्तमृणालिका । ग्रीवा च शिथिला पक्षावुत्पतनासहाविमौ ।। १६५ ।। शून्यं चेदमवस्थानमवस्थां विरहाकुलाम् । आख्याति व्यक्तमेतस्या अनाख्यातामपि स्वयम् ।। १६६ ॥ कलाविदीदृशी कस्मादियत्कालं सखि त्वया । नानीतेयं गृहे क्षिप्त्वा रहस्यमिव किं धृता ।। १६७ ॥ वीरभद्रोऽप्युवाचैवं गुरूणामभिशङ्कया । नानीताहमिह स्वस्रा नान्यत् किमपि कारणम् ।। १६८ ।। अनङ्गसुन्दरीत्यूचेतः परं प्रत्यहं त्वया । आगन्तव्यं सह स्वस्रा किं चास्या नाम सुन्दरि ।। १६९ ॥ वीरभद्रो झगित्यूचे नाम वीरमतीति मे । भूयोऽप्यूचे राजपुत्र्या वेत्स्यन्या अपि किं कलाः ।। १७० ॥ ऊचे विनयवत्यैवमचिराज्ज्ञास्यसि स्वयम् । न प्रत्ययः पराख्यातेष्वत्यद्भुतगुणेष्वपि ।। १७१ ।। एवमस्त्वित्युदित्वाथ मुदितानङ्गसुन्दरी । सत्कृत्य विनयवतीं विससर्ज तदन्विताम् ।। १७२ ।। वीरभद्रो वधूवेषं गृहे मुक्त्वा ययौ पुनः । आपणे श्रेष्ठिनः पार्श्वे पितृभक्तिनियन्त्रितः ।। १७३ ।। श्रेष्ठी तमूचे सस्नेहं वत्स क्वास्था इयच्चिरम् । इह त्वां पृच्छतां नृणां निर्विण्णोऽस्म्युत्तरं ददत् ।। १७४ ।। बभाषे वीरभद्रोऽपि तातोद्याने गतोऽस्म्यहम् । श्रेष्ठ्यप्यभाषतैवं च यद्येवं शोभनं कृतम् ।। १७५ ।। तथैवाह्नि द्वितीयेऽपि तत्र सोऽगात् कलानिधिः । अनङ्गसुन्दरी वीणां वादयन्तीं ददर्श च ।। १७६ ॥ इत्यूचे वीरभद्रस्तां तन्त्रीरेषा न सुस्वरा । मनुष्यवालोऽमुष्यां यदनुस्यूतोऽस्ति सुन्दरि ।। १७७ ।। कथं नु ज्ञायत इति तयोक्तः सोऽब्रवीदिदम् । ज्ञायते त्वदुपक्रान्तरागनिर्वाहदर्शनात् ।। १७८ ॥ ततश्च सार्पयामास वीरभद्रस्य वल्लकीम् । तद्विदुत्कीलयामास तत्तन्त्रीं सोऽपि तत्क्षणात् ।। १७९ ॥ १ उड्डयनेऽक्षमौ ।
वीरभद्रवृत्तान्तः ।
IR३॥