________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२२॥
आश्रयन् प्रश्रयं वीरभद्रोऽप्येवमवोचत । निष्क्रान्तोऽपि पितुर्गेहात् पितुर्गेहेऽहमागमम् ॥ १५० ॥ तवाज्ञावशवर्त्यस्मि शिष्योऽस्मि तव सर्वदा । औरसो हि पापपुत्रो धर्मपुत्रोऽस्म्यहं पुनः ।। १५१ ।। ततः स सुखमेवास्थाच्छङ्खस्य श्रेष्ठिनो गृहे । पौरान् विस्मापयन्नाविः कलाविज्ञानकौशलैः ।। १५२ ॥ तत्र रत्नाकरनृपस्यासीद्विश्वैकसुन्दरी । अनङ्गसुन्दरी नाम पुरुषद्वेषिणी सुता ।। १५३ ।। तस्याः पार्श्वे प्रतिदिनं श्रेष्ठिशङ्खसुता ययौ । नामतो विनयवती विनयैकनिकेतनम् ॥ १५४ ॥ स्वसः क्व यासीति पृष्टा वीरभद्रेण सान्यदा । भ्रातृस्नेहाद्विनयवत्याचचक्षे यथातथम् ।। १५५ ॥ सा सखी ते विनोदैः कैः कालं गमयति स्वसः । इत्युक्ता वीरभद्रेण वीणाद्यैरिति सावदत् ।। १५६ ।। तर्ह्ययास्याम्यहमपीत्युक्ता तेन तु सावदत् । न पुंसो बालकस्यापि प्रवेशस्तत्र ते कुतः ॥ १५७ ॥ विधास्यामि वधूरूपं सम्यगित्यभिधाय सः । तत्संमतो नट इव सद्यः स्त्रीवेषमाददे ।। १५८ ॥ सोऽगात्तया समं तत्र सखि केयं त्वया सह । पृष्टेत्यनङ्गसुन्दर्या मत्स्वसेति जगाद सा ।। १५९ ॥ तदा चानङ्गसुन्दर्या सुन्दरैर्वर्णकैर्नवैः । फलके लिखितुं हंसी विरहार्तोपचक्रमे ।। १६० ।। तां वीरभद्र इत्यूचे त्वया विरहपीडिता । इयं लिखितुमारेभे परं दृष्ट्यादि नेदृशम् ।। १६१ ।। तर्हि त्वमालिखेत्युक्त्वा फलकं वर्णकैः सह । अनङ्गसुन्दरी वीरभद्रायार्पयति स्म सा ।। १६२ ॥ लिखित्वा तादृशीं हंसीं वीरभद्रोऽपि तत्क्षणम् । तस्यै समर्पयामास सा निरूप्यैवमब्रवीत् ॥ १६३ ॥ अहो आलेख्यनैपुण्यमन्तर्भावप्रकाशकम् । तथाहि दृष्टिरेतस्या बाष्पाम्बुकणवर्षिणी ।। १६४ ॥ १ आविः प्रकटं यथा स्यात्तथा । २ तया संमतः ।
षष्ठं पर्व द्वितीयः
सर्गः
श्रीअरनाथजिनचरितम् ।
वीरभद्र
वृत्तान्तः ।
॥२२॥