________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२१॥
साप्यूचे समयेऽत्रापि यत्ते वैदग्ध्यवागियम् । सोऽवोचन्मा कुपः कान्ते करिष्ये नेदृशं पुनः ।। १३६ ॥ तां साभिप्रायमित्युक्त्वा रमयामास सोऽधिकम् । साप्यस्वाप्सीद्रतिश्रान्ता तां वक्रोक्तिमजानती ।। १३७ ।। सत्यसुप्तेति तां दृढामुक्तान्तरीयकः । वीरवद्वीरभद्रोऽथ निर्जगाम निजागृहात् ॥ १३८ ॥ स्वं श्यामवर्ण गुटिकाप्रयोगेण चकार सः । याति वर्णपरावृत्त्या रूपं काव्यवदन्यताम् ।। १३९ । कलाकलापविज्ञानातिशयं दर्शयंश्च सः । विद्याधर इवाभ्राम्यत् स्वैरं ग्रामपुरादिषु ।। १४० ॥ सापृच्छ्य श्वशुरौ तातगृहेऽगात् प्रियदर्शना । विना पतिं कुलस्त्रीणां वासो ह्यन्यत्र नोचितः ।। १४१ ॥ एकदा सिंहलद्वीपे रत्नाकरनृपाश्रितम् । पुरं रत्नपुरं नाम वीरभद्रो ययावटन् ॥ १४२ ॥ स हट्टे श्रेष्ठिशङ्खस्य शङ्खोज्वलगुणश्रियः । न्यषीदत्तेन पृष्टश्च कुतो भद्र त्वमागमः ।। १४३ ।। बभाषे वीरभद्रोऽपि ताम्रलिप्त्याः स्ववेश्मतः । रुषित्वा निःसृतो भ्राम्यन्निह ताताहमागमम् ॥। १४४ ।। शङ्खः श्रेष्ठ्यप्यभाषिष्ट न सुष्ठु भवता कृतम् । कुमार सुकुमारेण विदेशगतिरीदृशी ।। १४५ ।। कर्मेदं वक्रमपि ते दैवेन सरलीकृतम् । अक्षताङ्गो यदत्रागास्त्वं वत्स मम सन्निधौ ॥। १४६ ।। इत्युक्त्वा तं गृहे नीत्वा शङ्खश्रेष्ठी स्वपुत्रवत् । स्नपयित्वा भोजयित्वा सस्नेहमिदमभ्यधात् ।। १४७ ।। ममानुत्पन्नपुत्रस्य पुत्र पुत्रस्त्वमेव हि । स्वामी भूत्वा मद्विभवमुपभुङ्क्ष्व च देहि च ।। १४८ ॥ कुरुष्व मद्दृशोः प्रीतिं विलसन्नमरेर्द्धिकः । धनं हि सुलभं वत्स तद्भोक्ता दुर्लभः सुतः ।। १४९ ।।
१ दृढं आमुक्तं बद्धमान्तरीयवस्त्रं येन सः । २ कवितापक्षे वर्णानामकारादीनां परावर्तनेनान्यार्थतां प्राप्तोति । ३ रत्नाकरनाम्ना नृपेणाश्रितम् । ४ शङ्ख इवोज्वला गुणाः श्रीश्च यस्य सः । ५ अमरस्येव ऋद्धिर्यस्य सः ।
षष्ठं पर्व
द्वितीयः
सर्गः
श्रीअरनाथ
जिनचरितम् ।
वीरभद्र
वृत्तान्तः ।
॥२१॥