________________
त्रिषष्टिशलाकापुरुषचरिते
|२०||
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
दैवानुकूल्यात्तदयं सङ्गमः साधुरावयोः । चिराद्वधूवरत्वेन घटेता तनयौ द्वयोः ।। १२१ ।। अनुरूपस्नुषालाभाद्गत्वा हृष्टो निजां पुरीम् । स प्राहिणोद्वीरभद्रं महत्या जन्ययात्रया ।। १२२ ।। वीरभद्रं वरं प्रेक्ष्यामन्दमानन्दमासदम् । तत्पित्राख्याततद्रूपगुणसंवाददर्शनात् ।। १२३ ।। शुभे दिने पर्यणैषीत् कन्यां मे प्रियदर्शनाम् । वीरभद्रः कुलस्त्रैणभद्रमङ्गलपूर्वकम् ॥ १२४ ।। कत्यप्यहानि स स्थित्वा सदारः स्वां पुरी ययौ । तिष्ठन्ति न चिरं जातु मानिनः श्वशरौकसि ।। १२५ ।। अौषं चान्यदा वीरभद्रो यामे निशान्तिमे । मुक्त्वा स तनयां सुप्तामेकाकी क्वचिदप्यगात्।। १२६ ।। आनैषीत्तत्प्रवृतिं च वामनः कोऽपि सम्प्रति । परं न व्यक्तमाख्याति स्फुटमाख्याहि तत्प्रभो ।। १२७ ।। इति सागरदत्तेन विज्ञप्तो भगवानपि । कुम्भो गणधरश्रेष्ठो जगादैवं कृपानिधिः ।। १२८ ।। तस्यां निशायां जामाता स तवैवमचिन्तयत् । कलानां पारदृश्वास्मि मन्त्राः सिद्धाश्च भूरिशः ॥ १२९ ।।। ज्ञाताश्च दिव्यगुटिकाप्रयोगा विस्मयास्पदम् । विज्ञानेषु च सर्वेषु भृशं प्राप्तं च पाटवम्।। १३० ॥ सर्वं निरर्थकं तत्तु मनागप्यप्रकाशनात् । नियन्त्रितोऽस्मि यदिह गुरुसान्निध्यलज्जया ।।१३१ ।। कुपमण्डूकवत्तिष्ठन्नहो कापुरुषोऽस्म्यहम् । प्रकाशयामि तद्गत्वान्यदेशेषु निजान् गुणान् ।। १३२ ।। विचिन्त्येति समुत्थाय भूयोऽप्येवमचिन्तयत् । प्रिया कृतकसुप्ता चेद्गतेर्विघ्नाय तद्भवेत् ।। १३३ ॥ ततः क्रीडाकृते तां स समुदस्थापयत् प्रियाम् । साप्युवाच शिरोऽतिर्मे किं कदर्थयसि प्रिय ॥१३४ ॥ शिरोऽर्तिः कस्य दोषेण तवेति तदुदीरिता । त्वद्दोषेणेति सावादीत् कीदृशेनेति सोऽवदत् ।। १३५ ।।
वीरभद्रवृत्तान्तः ।
I२०॥
१ कृतकेन कृत्रिमेण सुप्ता ।२ तेनोक्ता ।