________________
त्रिषष्टिशलाकापुरुषचरिते
॥१९॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
SAHASRAHARASHTRA
अनुरूपं वरं तस्या अपश्यन् दुःखितोऽभवम् । उक्तोऽस्मि जिनमत्या च चिन्तामाप्नोसि नाथ किम् ।।१०७ ॥ अनुरूपं त्वद्दहितुर्वरमन्वेषयन्नपि । न प्राप्तोमि क्वचिदपि तेन ताम्यामि सुन्दरि ॥१०८ ॥ इत्युक्तं जिनमत्यापि श्रेष्ठिन् श्रेष्ठस्त्वया वरः । ग्राह्यः स कोऽपि येन स्यान्नानुतापः प्रियावयोः ॥ १०९ ।। अवोचमहमप्येवं प्रमाणं दैवमत्र हि । आत्मनीनो हि सर्वोऽपि स्तोकेच्छुः कोऽपि नात्मनः ।। ११० ॥ इत्युक्त्वा विपणौ गच्छंस्ताम्रलिप्त्याः समागतम् । अद्राक्षमृषभदत्तं सार्थवाहं महर्द्धिकम् ।। १११ ।। साधर्मिकत्वात् सस्नेहा वाणिज्योदन्तगर्भिताः । अभूवन् पूर्वसुहृदेवालापाः सह तेन मे ॥ ११२ ॥ अन्यदा स ममागारमागात् केनापि हेतुना । ईक्षते स्म च सुचिरं मत्पुत्री प्रियदर्शनाम् ।। ११३ ॥ कस्य कन्येयमिति तु तेन पृष्टोऽहमब्रवम् । ममेयं हेतुना केन सुचिरं वीक्ष्यते त्वया ॥११४ ।। आह स्मर्षभदत्तोऽपि वीरभद्रोऽभिधानतः । संप्राप्तयौवनः श्रेष्ठिन्नस्ति मे तनयो नयी ।। ११५ ।। स रूपेणातिकन्दर्पोऽतिकैविः काव्यशक्तितः । अतिवाचस्पतिर्वाचा विज्ञानेनातिवर्धकिः ।। ११६ ॥ अतिहूहूश्च गीतेन वीणया चातितुम्बरुः । नाट्येषु चातिभरतो विनोदेष्वतिनारदः ॥११७ ॥ कामरूपः सुर इव गुटिकादिप्रयोगतः । किं चान्यत्सा कला नास्ति यां स्रष्टेव न वेत्ति सः ।। ११८ ।। कन्यां तस्यानुरूपां तु नापश्यं क्वचिदप्यहम् । इयं तु कन्यका दृष्ट्वा चिरात्तदुचिता मया ॥ ११९ ।। मयाप्युक्तं ममाप्येषा कलाकौशलशालिनी । अनुरूपवरार्थेऽस्याश्चिरं ग्रस्तोऽस्मि चिन्तया ।। १२० ॥ १ आत्मने हित आत्मनीनः आत्महितेच्छुरित्यर्थः । २ पूर्वमित्रेण सह यथालापा भवन्ति तथेत्यर्थः । कवि शुक्राचार्यमतिक्रान्त इति समास एवं सर्वत्र । ४ हूहूर्गन्धर्वविशेषः । ५ ब्रह्मेव ।
प्रियदर्शनाकथा ।
||१९॥