________________
त्रिषष्टिशलाकापुरुषचरिते
॥१८॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ
जिन
चरितम् ।
वातिसंकटमहो योगिभिः समुपाश्रितम् । रागद्वेषौ व्याघ्रसिंहौ पार्श्वतो यस्य तिष्ठतः ।। ९२ ।। अस्ततन्द्ररतः पुंभिर्निर्वाणपदकाङ्क्षिभिः । विधातव्यः समत्वेन रागद्वेषद्विषज्जयः ।। ९३ ॥ भूयांसः प्राव्रजञ्जनाः प्रभोर्देशनयानया । कुम्भादयो गणभृतस्त्रयस्त्रिशच्च जज्ञिरे ।। ९४ ।। पूर्णायामादिपौरुष्यां व्यस्राक्षीद्देशनां प्रभुः । कुम्भस्तत्पादपीठस्थो गणमृद्देशनां व्यधात् ।। ९५ ।। द्वितीयस्यां तु पौरुष्यां व्यसृजत् सोऽपि देशनाम् । शक्राद्याश्च प्रभुं नत्वा जग्मुर्निजनिजं पदम् ।।९६ ॥ यक्षेन्द्रः षण्मुखस्त्र्यक्षः श्यामः शङ्खरथों भुजैः । मातुलिङ्गिबाणिखड्गिमुद्गरिपाश्यभीप्रदैः ॥९७ ॥ दक्षिणैः षड्भिरन्यैश्च नकुलीष्वासिचर्मिभिः । शूलाङ्कुशाक्षसूत्राक्षैर्युक्तस्तत्तीर्थभूस्तथा ।। ९८ ॥ देवी च धारिणी नाम नीलाङ्गी कमलासना । मातुलिङ्गोत्पलधरदक्षिणोभयबाहुका ।। ९९ ।। पद्माक्षसूत्रभृद्वामोभयबाहुररप्रभोः । सन्निधिस्थे सदाभूतामुभे शासनदेवते ।। १०० ।। ताभ्यामधिष्ठिताभ्यो भगवान्विहरन्महीम् । अन्येषुः समवासार्षीत् पद्मिनीखण्डपत्तने । १०१ ॥ तत्रापि देशनां कृत्वा विरते सत्यरे प्रभौ । स्वामीव विदधे कुम्भो देशनां संशयच्छिदाम् ।। १०२ ॥ तत्रैको वामनोऽभ्येत्य धर्म श्रोतुमुपाविशत् । श्रेष्ठी सागरदत्तोऽथ कुम्भं नत्वैवमब्रवीत् ।। १०३ ।। भवप्रकृत्या भगवन् दुःखिनो भविनोऽखिलाः । विशेषदुःखितश्चास्मि सुखलेशोऽपि नास्ति यत् ॥१०४ ।। भार्यायां जिनमत्यां मे नामतः प्रियदर्शना । उत्पन्ना दुहिता रूपाधरीकृतसुराङ्गना ॥ १०५ ॥ प्राप चानन्यसामान्यं सा कलास्वतिकौशलम् । द्वितीयं च वयो रूपवैदग्ध्यश्रीविशेषकम् ।। १०६ ॥
यक्षयक्षिण्यौ।
|| ॥१८॥
१ आलस्यरहितैः ।२ मातुलिङ्गमस्यास्तीत्येवं सर्वत्रास्त्यर्थे इनिः । ३ यौवनाख्यं ।