________________
त्रिषष्टिशलाकापुरुषचरिते
॥१७॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
रागादितिमिरध्वस्तज्ञानेन मनसा जनः । अन्धेनान्धं इवाकृष्टः पात्यते नरकावटे ॥ ७९ ।। द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीतिं चाहढेषं मनीषिणः ।। ८० ॥ उभावेतौ दृढतरौ बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोकहानां मूलकन्दौ प्रकीर्तितौ ।। ८१ ।। कः सुखे विस्मयस्मेरो दुःखे कः कृपणो भवेत् । मोक्षं को नाप्नुयाद्रागद्वेषौ स्यातां न चेदिह ।। ८२ ।। रागेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः । तयोरेकतरत्यागे परित्यक्तावुभावपि ।। ८३ ॥ दोषाः स्मरप्रभृतयो रागस्य परिचारिकाः । मिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः ।। ८४ ।। तयोर्मोहः पिता बीजं नायकः परमेश्वरः । ताभ्यामभिन्नस्तद्रक्ष्यः सर्वदोषपितामहः ।। ८५ ।। एवमेते त्रयो दोषा नातो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ।। ८६ ।। स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरेतैस्तु तादात्म्येनावभासते ।। ८७ ॥ अराजकमहो विश्वं यदेभिः पश्यतोहरैः । ह्रियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनाम् ।। ८८ ॥ ये जन्तवो निगोदेषु येऽपि चासन्नमुक्तयः । सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी ।। ८९ ।। मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा । येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते ।। ९० ।। व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः । लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥९१ ॥
देशना ।
1॥१७॥
१ रागादय एवान्धकारं तेन ध्वस्तं ज्ञानं यस्य तत् । २ यथान्धेनाकृष्येऽन्योऽवटे कूपे पात्यते तद्वत्।३ अनोकहो वृक्षः । ४ रागं विना द्वेषो न भवेत् द्वेषं च विना रागोऽपि न भवेदित्यर्थः । ५ सेवकाः । ६ सर्वदोषाणां पितरौ रागद्वेषौ तयोरपि पिता मोह इत्यर्थः । ७ सेना । ८ मुमुक्षुभिः ।