________________
त्रिषष्टिशलाकापुरुषचरिते
॥१६॥
षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् ।
पूर्वसिंहासने तत्रोपाविशत् प्राङ्मुखः प्रभुः । व्यन्तरास्तत्प्रतिच्छन्दान् दिक्ष्वन्यास्वपि चक्रिरे ।। ६४ ।। अवास्थित यथास्थानं सोऽपि भगवानथ । ज्ञात्वेशं समवसृतं तत्रागाच्च कुरूद्वहः ।। ६५ ।। भगवन्तं नमस्कृत्य सोऽनुशक्रमुपाविशत् । प्रारेभाते इति स्तोतुमथ शक्रकुरूद्वहौ ।। ६६ ।। जय त्रिभुवनाधीश जय विश्वैकवत्सल । जय कारुण्यजलधे जयातिशयशोभित ।।६७ ।। विश्वप्रकाशनं भानोरमोधैर्भानुभिः सदा । विश्वसंतापहरणं ज्योत्स्नया च हिमद्युतेः ।।६८ ॥ जगज्जीवनमम्भोभिः प्रावृडम्भोधरस्य च । जगदाश्वासनं वायोर्गत्या संततयापि च ।। ६९ ।। यथा निष्कारणमिह तथा ते परमेश्वर । जगत्त्रयोपकाराय प्रवृत्तिर्जयति प्रभो ।। ७० ।। अन्धकारमयं चासीदन्धं वा जगदप्यदः । सप्रकाशं सेक्षणं वा त्वया जज्ञेऽधुना पुनः ।। ७१ ।। नरकाणां खिलः पन्था भविताऽतः परं प्रभो । तिर्यग्योनावपि गतिः स्तोकस्तोका भविष्यति ।।७२ ।। सीमग्रामान्तराणीव स्वर्गाश्च प्राणिनाममी । प्रत्यासन्ना भविष्यन्ति मुक्तिरप्यदवीयसी ।। ७३ ।। त्वयि विश्वोपकाराय विहरत्यवनीमिमाम् । भावि किं किं न कल्याणमसंभाव्यमपि प्रभो ।।७४ ।। इति स्तुत्वा सौधर्मेन्द्रे कुरुराजे च तस्थुषि । अरनाथः स भगवान् विदधे धर्मदेशनाम् ॥७५ ॥ चतुर्वर्गाग्रणीर्मोक्ष एकान्तसुखसागरः । तत्साधकतमं ध्यानमधीनं मनसश्च तत् ।। ७६ ॥ आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ७७ ॥ रक्ष्यमाणमपि स्वान्तं समादाय मनाग्मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥७८ ॥ १ पूज्यः ।२ किरणैः । ३ शून्यः । ४ नातिदूरा ।
FASRAHASHARASHARAHARASHARE
देशना ।
1॥१६॥