Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 439
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२२॥ आश्रयन् प्रश्रयं वीरभद्रोऽप्येवमवोचत । निष्क्रान्तोऽपि पितुर्गेहात् पितुर्गेहेऽहमागमम् ॥ १५० ॥ तवाज्ञावशवर्त्यस्मि शिष्योऽस्मि तव सर्वदा । औरसो हि पापपुत्रो धर्मपुत्रोऽस्म्यहं पुनः ।। १५१ ।। ततः स सुखमेवास्थाच्छङ्खस्य श्रेष्ठिनो गृहे । पौरान् विस्मापयन्नाविः कलाविज्ञानकौशलैः ।। १५२ ॥ तत्र रत्नाकरनृपस्यासीद्विश्वैकसुन्दरी । अनङ्गसुन्दरी नाम पुरुषद्वेषिणी सुता ।। १५३ ।। तस्याः पार्श्वे प्रतिदिनं श्रेष्ठिशङ्खसुता ययौ । नामतो विनयवती विनयैकनिकेतनम् ॥ १५४ ॥ स्वसः क्व यासीति पृष्टा वीरभद्रेण सान्यदा । भ्रातृस्नेहाद्विनयवत्याचचक्षे यथातथम् ।। १५५ ॥ सा सखी ते विनोदैः कैः कालं गमयति स्वसः । इत्युक्ता वीरभद्रेण वीणाद्यैरिति सावदत् ।। १५६ ।। तर्ह्ययास्याम्यहमपीत्युक्ता तेन तु सावदत् । न पुंसो बालकस्यापि प्रवेशस्तत्र ते कुतः ॥ १५७ ॥ विधास्यामि वधूरूपं सम्यगित्यभिधाय सः । तत्संमतो नट इव सद्यः स्त्रीवेषमाददे ।। १५८ ॥ सोऽगात्तया समं तत्र सखि केयं त्वया सह । पृष्टेत्यनङ्गसुन्दर्या मत्स्वसेति जगाद सा ।। १५९ ॥ तदा चानङ्गसुन्दर्या सुन्दरैर्वर्णकैर्नवैः । फलके लिखितुं हंसी विरहार्तोपचक्रमे ।। १६० ।। तां वीरभद्र इत्यूचे त्वया विरहपीडिता । इयं लिखितुमारेभे परं दृष्ट्यादि नेदृशम् ।। १६१ ।। तर्हि त्वमालिखेत्युक्त्वा फलकं वर्णकैः सह । अनङ्गसुन्दरी वीरभद्रायार्पयति स्म सा ।। १६२ ॥ लिखित्वा तादृशीं हंसीं वीरभद्रोऽपि तत्क्षणम् । तस्यै समर्पयामास सा निरूप्यैवमब्रवीत् ॥ १६३ ॥ अहो आलेख्यनैपुण्यमन्तर्भावप्रकाशकम् । तथाहि दृष्टिरेतस्या बाष्पाम्बुकणवर्षिणी ।। १६४ ॥ १ आविः प्रकटं यथा स्यात्तथा । २ तया संमतः । षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् । वीरभद्र वृत्तान्तः । ॥२२॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524