Book Title: Trishashti Shakala Purush Charitam Part 3
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 438
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२१॥ साप्यूचे समयेऽत्रापि यत्ते वैदग्ध्यवागियम् । सोऽवोचन्मा कुपः कान्ते करिष्ये नेदृशं पुनः ।। १३६ ॥ तां साभिप्रायमित्युक्त्वा रमयामास सोऽधिकम् । साप्यस्वाप्सीद्रतिश्रान्ता तां वक्रोक्तिमजानती ।। १३७ ।। सत्यसुप्तेति तां दृढामुक्तान्तरीयकः । वीरवद्वीरभद्रोऽथ निर्जगाम निजागृहात् ॥ १३८ ॥ स्वं श्यामवर्ण गुटिकाप्रयोगेण चकार सः । याति वर्णपरावृत्त्या रूपं काव्यवदन्यताम् ।। १३९ । कलाकलापविज्ञानातिशयं दर्शयंश्च सः । विद्याधर इवाभ्राम्यत् स्वैरं ग्रामपुरादिषु ।। १४० ॥ सापृच्छ्य श्वशुरौ तातगृहेऽगात् प्रियदर्शना । विना पतिं कुलस्त्रीणां वासो ह्यन्यत्र नोचितः ।। १४१ ॥ एकदा सिंहलद्वीपे रत्नाकरनृपाश्रितम् । पुरं रत्नपुरं नाम वीरभद्रो ययावटन् ॥ १४२ ॥ स हट्टे श्रेष्ठिशङ्खस्य शङ्खोज्वलगुणश्रियः । न्यषीदत्तेन पृष्टश्च कुतो भद्र त्वमागमः ।। १४३ ।। बभाषे वीरभद्रोऽपि ताम्रलिप्त्याः स्ववेश्मतः । रुषित्वा निःसृतो भ्राम्यन्निह ताताहमागमम् ॥। १४४ ।। शङ्खः श्रेष्ठ्यप्यभाषिष्ट न सुष्ठु भवता कृतम् । कुमार सुकुमारेण विदेशगतिरीदृशी ।। १४५ ।। कर्मेदं वक्रमपि ते दैवेन सरलीकृतम् । अक्षताङ्गो यदत्रागास्त्वं वत्स मम सन्निधौ ॥। १४६ ।। इत्युक्त्वा तं गृहे नीत्वा शङ्खश्रेष्ठी स्वपुत्रवत् । स्नपयित्वा भोजयित्वा सस्नेहमिदमभ्यधात् ।। १४७ ।। ममानुत्पन्नपुत्रस्य पुत्र पुत्रस्त्वमेव हि । स्वामी भूत्वा मद्विभवमुपभुङ्क्ष्व च देहि च ।। १४८ ॥ कुरुष्व मद्दृशोः प्रीतिं विलसन्नमरेर्द्धिकः । धनं हि सुलभं वत्स तद्भोक्ता दुर्लभः सुतः ।। १४९ ।। १ दृढं आमुक्तं बद्धमान्तरीयवस्त्रं येन सः । २ कवितापक्षे वर्णानामकारादीनां परावर्तनेनान्यार्थतां प्राप्तोति । ३ रत्नाकरनाम्ना नृपेणाश्रितम् । ४ शङ्ख इवोज्वला गुणाः श्रीश्च यस्य सः । ५ अमरस्येव ऋद्धिर्यस्य सः । षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ जिनचरितम् । वीरभद्र वृत्तान्तः । ॥२१॥

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524