Book Title: Taraditraya Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 29
________________ ૧૦ તારાદિત્રયદ્વાચિંશિકા/બ્લોક-૪ श्टोs: सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । तपसोऽङ्गाक्षयोः सिद्धिः समाधिः प्रणिधानतः ।।४।। मन्वयार्थ : सन्तोषाद् उत्तमं सौख्यं संतोषथी उत्तम सुण, स्वाध्यायादिष्टदर्शनम् स्वाध्यायथी EN, तपसोऽङ्गाक्षयोः सिद्धिः-तपथी संगनीयानी सने सक्षनीन्द्रियोनी, सिसने प्रणिधानतः समाधि:=प्रधानथी वताना प्रधानथी, समाधि थाय छे. ॥४॥ लोार्थ : સંતોષથી ઉત્તમ સુખ, સ્વાધ્યાયથી ઈષ્ટદર્શન, તપથી કાયા અને ઈન્દ્રિયોની સિદ્ધિ અને દેવતાના પ્રણિધાનથી સમાધિ થાય છે. II૪ll टीडा :__ सन्तोषादिति-सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् अतिशयितं, सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनापि न समं । तदाह - “सन्तोषादनुत्तमः सुखलाभः" [पा.यो.सू.२-४२] । स्वाध्यायात् स्वभ्यस्तादिष्टदर्शनं जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवति । तदाह - “स्वाध्यायादिष्टदेवतासंप्रयोग:" [पा.यो.सू. २-४४] तपसः स्वभ्यस्तात् क्लेशाद्यशुचिक्षयद्वारा अङ्गाक्षयो:-कायेन्द्रिययोः, सिद्धिः, यथेच्छमणुत्वमहत्त्वादिप्राप्तिसूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्ष: स्यात् । यथोक्तं - “कायेन्द्रियसिद्धिरशुचिक्षयात्तपसः" [पा.यो.सू. २-४३] । प्रणिधानत-ईश्वरप्रणिधानात् समाधि: स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहत्य समाधिमुद्बोधयतीति । यथोक्तं - __ “समाधिसिद्धिरीश्वरप्रणिधानाद्" [पा.यो.सू.२-४५] इति तप:स्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं - “तप:स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः [२-१] समाधिभावनार्थः क्लेशतनुकरणार्थश्च" [२-२] इति ।।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120