Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१७२:
[श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
-
-
परममक्षि चक्षुर्यस्येति ‘परमाक्षः पुरुषः। अन बहुव्रीहिसमासान्ता. क्षिशब्दस्य स्वाङ्गत्वाद्भवति समासान्तस्तेनाऽकारान्तो भवतीति, तद्रूपाणि 'मोक्ष' ( ७६ ) वदवसेयानि ॥
स्त्रियां तुपरममक्षि यस्याः इक्षुयष्ट्याः सा ‘परमानिः' इयष्टिः ॥ तद्रूपसाधनिकादिचर्चा तत्पुरुषीयस्त्रीलिङ्गक 'अतिदधि' (१९५) वज्ज्ञेया; अपि त्वत्राऽस्वाङ्गत्वात् समासान्तो न भवतीति विशेषः ॥
यदातु-"इतोऽक्त्यर्थात्" [ २, ४, ३२ ] इति डीस्तदा ‘परमाक्षी' इक्षुयष्टिः । तद्पाणि वक्ष्यमाण 'नदी' ( २२५ ) वत् ॥ अत्र डीव्यवधानादेव “ दध्यस्थि० " [ १, ४, ६३ ] इत्यनादेशाभावो भाग्य इति । __. परममक्षि चक्षुर्यस्याः स्त्रियाः साऽपि 'परमाक्षी' इति । भन्न स्वागत्वात् समासान्तटप्रत्ययो भवति, तदनु “ अणजेयेकण्० " [ २, ४, २० ] इति टिल्लक्षणडीभवतीति । अस्यापि रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) वदेव । अत्रापि डीव्यवधानादनोऽभावः ॥
नपुंसकलिङ्गे तु-- परममक्षि चक्षुर्यस्य कुलस्येति ‘परमाक्षम्' कुलम् । अत्राऽपि स्वाङ्गस्वात्समा सान्ते टे ‘परमाक्ष' इत्यस्य 'चारित्र' ( १५७ ) वद्रूपाणि वाच्यानि ॥
परमं च तदक्षि ( मानवस्य ) इति (तत्पुरुषे) 'परमाक्ष' इति प्रकृतिर्भवति स्वाङ्गत्वात् । परमं च तदक्षि ( इक्षोः ) इति 'परमाक्षि' इति प्रकृतिः, अस्वाङ्गत्वात् । आद्याया: प्रकृतेः 'चारित्र' (१५७) वद्रूपणि, अपरायाश्च 'अक्षि' ( १९७ ) वदवसेयानि रूपाणि ॥ ( १९९ ) इकारान्तो विशेषणरूपः 'अतिशालि' शब्दः । पुंल्लिङ्गे
(शालीनतिक्रान्तः, अतिशयितः शालिर्वा 'अतिशालिः' ) वि० एकव०
द्विव०
बहुव० प्र. अतिशालिः अतिशाली अतिशालयः द्वि० अतिशालिम्
अतिशालीन् तृ० अतिशालिना अतिशालिभ्याम् अतिशालिभिः
बहु

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228