Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२१४ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ]
कल्याणोखा, कल्याणगोखा+ ॥ बहुवचनमाकृतिगणार्थम् , तेन किशलयकरा मृणालभुजा' इत्यादि ॥ आदित्येव-परमशिखा ॥ स्वाङ्गलक्षणं चेदम्-"अविकारोऽIIद्रवं IIमूर्त, प्राणिस्थं स्वाङ्गमुच्यते ।
च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु" ॥१॥ अविकारस्वाभावात्-बहुशोफा ॥ अद्वत्वाभावात-बहुकफा । मूर्तस्वाभावात्-बहुज्ञाना । प्राणिस्थस्वाभावात्-दीर्घमुखा शाला ॥
च्युतं च प्राणिनस्तदिति वचनाद्-अप्राणिस्थादपि पूर्वोक्तस्त्राङ्गाद्भवति, यथा बहवः केशा यस्यां सा 'बहुकेशी बहुकेशा' रथ्या ॥
तन्निभं च प्रतिमादिष्विति वचनात्-प्राणिस्थ सदृशादपि पूर्वोक्तस्वाङ्गाद्भवति, यथा पृथु मुखमस्या: 'पृथुमुखी पृथुमुखा' प्रतिमा ॥
कथं कल्याणं पाणिपादमस्याः 'कल्याणपाणिपादा' इत्यत्र न भवति ? स्वाङ्ग समुदायो हि न स्वाङ्गम् ; बहुस्वरत्वेन 'नासिकोदराभ्यामेव बहुस्वराभ्याम् , ओष्ठादिभ्य एव च संयोगोपान्त्येभ्यो भवति, नान्येभ्य' इति नियमबलाद्वा न भवतीति ॥ ___'द्विपादी त्रिपादी'त्यत्र तु "द्विगोः समाहारात्" [२, ४, २२] इति विशेष विधानान्नित्यमेव डीभवति ॥
___ अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये-पाणी एव पादौ यस्याः सा 'पाणिपादा', मुखमेव नासिका यस्याः सा 'मुखनासिका' ॥
___ + उखाशब्दसान्निध्यात स्त्रीत्वं ज्ञायते, गोरिव खमिन्द्रियं यस्याः सा गोखा; कल्याणा गोखा यस्या इति । अवयवविशेषो जघनरूपः ॥ I विकारो वातादिजन्मशोफादिस्तदभावोऽविकारः ॥ II द्रवणं द्रवो, न वोऽस्येत्यद्रवम् । यतीति द्रवं, न द्रवमद्रवं वा ॥ Il[ रूपादियोगो मूर्तिः, असर्वगतद्रव्यपरिमाणं वा । तद्योगान्मूतं पुद्गलद्रव्यम् ॥ IV अपरं लक्षणद्वयमुच्यते । तदविकारादिलक्षणयुक्तं प्राणिनश्चयुतमपि स्वाङ्गं.
भवतीति ॥

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228