Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डोप्रत्ययान्तं प्रकरणम् । २१५
जिन (७४) वत् ।
दर्शन(७४) वत्।
पुसि-अतिकेशो मार्गः ) क्लीबे-अतिकेशं गृहाङ्गणम् बहुकेशः पन्थाः
बहुकेशं भूशकलम् पृथुमुखो बाल: ।
पृथुमुखं बिम्बम् (२४९) ईकारान्तः स्त्रीलिङ्गः 'तुङ्गनासिको' शब्दः ॥
(तुङ्गा नासिका यस्याः सा 'तुङ्गनासिकी' ) . एतद्रपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं कृशोदरी-बिम्बोष्टीदीर्घजङ्घी-समदन्ती-चारुकर्णी-तीक्ष्णशृङ्गी-मृद्वङ्गी-सुगात्री-स्निग्धकण्ठी च ॥
शब्दसाधनिका त्वियम् -अत्र "नासिकोदरोष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात्" [२, ५, ३९] इति सहादिवर्जपूर्वपदेभ्य एभ्यो नासिकादिशब्देभ्यो ङीर्वा भवति । ङ्यभावे चाऽऽप् भवति । आपि च 'दया' (१६५) वद्रपाणि भवन्ति ॥ तुङ्गा नासिकाऽस्य-तुङ्गनासिकः पुरुषः । 'जिन' (७४) वद्रूपाणि । ,, , -तुङ्गनासिकं कुलम् । 'दर्शन' (१५६), । कृशमुदरमस्याः= कृशोदरी' कृशोदरा । । कृशमुदरमस्य-कृशोदरः पुमान्, बिम्बवदोष्ठावस्या: "बिम्बोष्ठी' बिम्बोष्टा ।
कृशोदरं कुलम् । एवं शेषेषु दीर्घ जङ्घ अस्याः दीर्घजङ्घी दीर्घजङ्घा । शब्देषु पुंसि क्लीवे च स्वधिसमा दन्ता , समदन्ती समदन्ता ।
यावसेयम् । रूपाणि तु पुंसि चारू कौँ ,, चारुकर्णी चारुकर्णा । तीक्ष्णे शृङ्गे ,, तीक्ष्णशृङ्गी तीक्ष्णशृङ्गा।
यथासम्भवं 'जिन' (७४) वत् मृद्वङ्गमस्या: मृदङ्गी मृदङ्गा ।
'वीर' (७५) वच्च, क्लीबेऽपि सुष्टु गात्राण्यस्या: सुगात्री सुगात्रा । ।
यथाप्राप्तं 'दर्शन' (१५६) वत् , स्निग्धः कण्ठोऽस्याः स्निग्धकण्ठी-स्निग्धकण्ठा।' 'चारित्र' (१५७) वच्च ॥
___'तुङ्गनासिकी दीर्घजङ्घी' इत्यत्र ‘गोश्चान्ते ह्रस्वो" [२, ४, ९६] इति हस्वत्वं विहाय डीविधेयः ॥
___'बिम्बोष्ठी' इत्यत्र "वौष्ठौती समासे" [१, २, १७] इत्यनेन बिम्बशब्द. स्थाऽकारस्य लुग्वा भवतीति 'बिम्बोष्ठी विम्वौष्टोति ॥
___अङ्गगात्रकण्ठेभ्यो डीप्रत्ययं नेच्छन्त्यन्ये । केचित्त दीर्घजिह्वशब्दादपीच्छ. न्तीति । तन्मते दीर्घजिह्वा दीर्घजिह्वा कन्येति ॥

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228