Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 226
________________ [श्रीस्याद्यन्तरत्नाकरे-इंकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] २२३ या सा प्रथमा जातिर्भवति, यथा-गोत्वादिः; गोत्व हि गलकम्बलसास्नादीनामवयवानां रचनाविशेषेण ज्ञायते, इति लक्षणसमन्वयः ॥ सकृदुपदिष्टा निःशेषेण या ग्राह्येत्येतदर्थकस्य ‘सकृदुपदेशव्यङ्गयत्वे सति' इत्युत्तरदलस्यात्राप्यन्वयात् , देवदत्तादेः कथञ्चित् संस्थानव्यङ्गयत्वेऽपि देवदत्तशब्दस्य न जातिवाचकत्वमेकव्यक्तित्वेन निःशेषेण ग्राह्यस्वाभावात् । तथा च सकृदुपदेशव्यजयत्वे सति संस्थानव्यङ्गया या सा प्रथमा जातिर्भवतीति ॥ न च द्वितीयलक्षणेन प्रथमलक्षणसंगृहीतगोत्यादीनामपि संग्रहात् प्रथमलक्षणवैयर्थ्यमितिवाच्यम् । तटस्तटी तटमित्यत्र तटशब्दस्य अत्रिलिङ्गत्वाभावेन तत्संग्रहाय प्रथमलक्षणस्यावश्यकत्वात् ॥ द्वितीयजातिव्याख्यानम्-ब्राह्मणत्वादिर्जातिः प्रथमलक्षणेन संगृहीता न भवति, ब्राह्मणक्षत्रियादीनां संस्थानस्य सदृशत्वादिति तस्संग्रहाय द्वितीयलक्षणस्यावश्यकता। तथा च संग्राहकमिदं लक्षणम्, न तु पूर्वेणातिप्रसक्तस्य नियमायेति त्रिलिङ्गभागपि संस्थानव्यङ्गया जातिर्भवति, यथा-तटस्तटी तटमिति । सकृद्-एकवारं य उपदेश एवं विधाचारादियुक्तो यः, स ब्राह्मणादिविज्ञेय इत्यादिरूपस्तेन व्यङ्गयत्वे बोध्यत्वे सति, अत्रिलिङ्गा=त्रिषु लिङ्गेषु वर्तमाना या न भवति, सा अन्या-द्वितीया जातिर्भवति । यथा-ब्राह्मणत्वादिः । ब्राह्मणशब्दो हि 'ब्राह्मणो ब्राह्मणी' इति लिङ्गद्वय एव वर्तते, न क्लीवे इत्यत्रिलिङ्गता; एवमेकस्यां ब्राह्मणादिव्यक्ती एवं विधाचारादियुक्तो यः स ब्राह्मणादिरिति एकवारमु. पदेशे कृते तदपत्यसहोदरादौ कथनं विनाऽपि ब्राह्मणत्वादेः सुग्रहत्वात् , सकृदुप. पदेशव्यङ्ग्यता, इति दलद्वयसद्भावात् लक्षणसमन्वयः ॥ शुक्लादीनां सकृदुपदेशव्यङ्गयत्वेऽपि अत्रिलिङ्गत्वाभावात् , देवदत्तादेत्रिलिङ्गत्वेऽपि एकव्यक्तिस्वेन सकृदुपदेशव्यङ्यत्वाभावान जातित्वम् ॥ ननु परिमाणभेदेन द्रव्यभेदाभ्युपगमे, देवदत्तशरीरस्य परिमाणभेदकृतशरीरनानात्वेन, एकस्यां व्यक्ती देवदत्तत्वे कथिते, व्यक्त्यन्तरे कथनं विनाऽपि तस्य सुमहत्वाद् देवदत्तत्वादेः जातिवं समायातमित्यतिप्रसङ्ग इति चेन,

Loading...

Page Navigation
1 ... 224 225 226 227 228